________________
460 বতমালা
(শামজা - मिनिश्चितप्रामाण्यमपि फलज्ञानं भावज्ञाने प्रामाण्यनिधायकम् ]
अनिश्चितप्रामाण्यादपि वा फलज्ञानात् प्रवर्तकस्य प्रामाण्यनिश्चयो युक्तः, न तु स्वतः ; उत्पत्ती प्रमाणतदाभासयो विशेषा'प्रहणात् । फलक्षाने च तद्विशेषप्रतिभासात् ॥
(परतः प्रामाण्ये अनघस्थादोषपरिहारः यत्त--विशेषज्ञानं निश्चितप्रामाण्यमनिश्चितप्रामाण्यं वेति विकभन्यानवस्थापादनं, अप्रतिपत्ति प्रहतता कथनं वा (434-436 पु.)-- तत् दृष्टविरुद्धत्वात् प्रलापमात्रमित्यलमलीकोक्तविकल्पकलापनिर्मथनोदितदुरामोदाखादनेन ॥
__ [मामाण्याप्रामाण्ययोः परतस्त्वोपसंहारः] स्थितमेतत् अर्थक्रियाशानात्प्रामाण्यनिश्चय इति । तदिद. . मुक्तम्-- 'प्रमाणतोऽर्थप्रतिपत्तौ प्रवृत्तिसामर्थ्यादर्थवत्प्रमाणम् (म्या. भा. 1-1-1) इति। तस्मादप्रामाण्यवत्प्रामाण्यमपि' 'परापेक्षामित्यतो द्वयमपि परत इत्येष एव पक्षः श्रेयान् ॥
(प्रामाण्यग्रहणविषये जैनमतप्रतिक्षेपः) __ यत्तु कश्चित्प्राज्ञमानी वदति--- अभ्यस्ते विषये स्वतःप्रामाण्यम, अनभ्यस्ते तु परत:---इति, सोऽयं अभ्यस्ते विषये' इति च प्रवीति, निश्चयो वाग्यः। एवञ्च पूर्व फलज्ञानेनैव अभ्यभिचरितत्वरूपप्रामाण्यनिश्चयस्य अनुभवसिद्धत्वात सर्वत्रापि तथैव प्रामाण्यनिश्चय इति सिध्यतीति ॥ : ___ अनिश्चितेति। अगृहीताप्रामाण्यादपीति बोध्यम् । प्रवर्तकस्य, ज्ञानस्येति शेषः । इदं रजतं इति प्राथमिकानुभवो हि शुक्किरजतसत्यरजतस्थले च एकरूप एवोपलभ्यते । फलज्ञाने, सतीप्ति शेषः तद्विशेषः-प्रमात्वतदभावरूपः॥
विद्यानन्दिना तत्त्वार्थवार्तिके ' तत्राभ्यासात प्रमाणत्वं निश्चित स्वत एवं नः। मनभ्यासे तु परतः' (1-10-125) इत्युक्तम् । · सदनुसृत्यान्येऽपि माणिक्यनन्दिप्रभृतयः। तदेतदन्य दूषयति यत्विति
। विशेष-च
पर्यन्तता-क. 'प्रामाण्यमपि-ख.
परोक्ष-ख.