________________
भांडिकम् :) परतःप्रामाण्येऽनक्खापरिहार:
449 तथा तत्कारणपरीक्षा प्रति। फलज्ञानमेवेत्थं परीक्ष्यते । आद्यस्य हि ज्ञानस्य फलज्ञानादेव प्रामाण्यसिद्धिः। कश्च नाम निकटमुपायमुपेक्ष्य दूरं गच्छेदिति !
[प्रकारान्तरेण प्राथमिकज्ञाने प्रामाण्यनिश्चयोपपादनम् ] अथ वा संशयोत्पत्तिसामर्यादेव यथार्थेतरत्वनिश्चयः फलशानेन लप्स्यते। संशयो हि नाम द्वैविध्यदर्शनाद्विना न भवत्येव । म हि स्थाणुपुरुषसाहचर्यमूर्खताख्यस्य धर्मस्य यो न जानाति, स तं दृष्ट्वा 'स्थाणुर्वा स्यात् ? पुरुषो वा ?' इत संशेते । एवमूर्ध्वस्वव'द्वोध रूपत्वस्य व्यभिचारित्वाव्यभिचारित्याभ्यां सहदर्शनमवश्यमाश्रयणीयम्, अन्यथा तद्विषयसंशयानुत्पादात् । अतः पूर्वमव्यभिचारित्वदर्शने सिद्धे यस्तदा तत्परिच्छेदोपायः, स पश्चादपि भविष्यतीति सर्वथा सिद्धयत्यव्यभिवारित्वनिश्चयः ॥
'फलज्ञानादेव' इति शपथः कुत:? इत्यत्राह--कश्चेति । यद्यप्यस्मत्सिद्धातभङ्गभीत्या 'फलज्ञानादेव' इाते न वदामः । किन्तु तस्वस्थितिमनुरुध्यैव । पुरोवर्तिवस्तुनि दृष्टे, मनुष्यस्य प्रवृत्ति: प्रथमं जायते। फलपाप्त्यप्राप्तिभ्यां तु उत्पन्नज्ञाने प्रामाण्यतदभावौ निश्चिनोति इत्युत्सर्गः। प्राथमिकज्ञाने डोलायमानरूपे सति यदि तन्त्र प्रामाण्यनिश्चयमपेक्षते, तदाऽपि, 'किं चर्चया? समीपमुपसप्यैव निणे यामः' इति अर्थक्रियाज्ञानार्थमेव प्रवर्तते, न तु क्लेशसाध्ये दोषाभावनिश्चये इत्यप्युत्सर्ग एव इत्याशयः। गत्यन्तरविरहे तु अस्तु तथैव । परत: प्रामाण्यं तु अनपोह्यमेवेति च भावः ॥
संशयोत्पत्तिसामर्थ्यात्-प्राथमिकज्ञाने 'इदं प्रमा? न वा!' इति संशयोत्पादनक्षमत्वात् इति यावत । साहचर्य-साधारण्यम् । सहदर्शनं साधारण्यज्ञानम् । अयं भावः--प्राथमिकं ज्ञानं तु संशयक्षममिति अनुभवसिद्धम् । संशयश्च कोटिद्वयसाधारणधर्मज्ञानात् । प्रमात्वतदभावरूपकोटिद्वयसाधारणबोधत्वरूपधर्मज्ञानमेव तत्र संशयहेतुः वाच्यः। सेन च पूर्व कदाचित् बोधत्वस्य व्यभिचरितज्ञाने, भव्यभिचरितज्ञाने च परिचयः भावश्यकः। तदा च भनवस्थादिभिया फलज्ञानमूल एव अव्यभिचरितस्व
NYAYAMANJARI
29