________________
448
परत:प्रमाण्यसमर्थनम्
[न्यायमचरी
जागर्मि, न स्वपिमि-इति स्वप्नविलक्षणमनिद्राय'माणमानसः प्रत्यक्षमेव जाग्रत्समय सकलो जनश्चेतयते । न च तस्मिन्नवसरे सलिलमन्तरेणैताः क्रियाः 'पवर्तमाना' दृश्यन्त इति तद्विशेषदर्शनात् सुज्ञानमर्थक्रियाज्ञानप्रामाण्यम ॥
कारणदोषाभावाच्च अर्थक्रियाज्ञाने प्रामाण्यम् । कारणपरीक्षातो वा तस्मिन् प्रामाण्यं निश्चेष्यामः। यथोक्तं भवद्भिरेव-'प्रयत्नेनान्विच्छन्तो न चेद्दोषमवगच्छेम तत्प्रमाणाभावात् , अदुमिति मन्येमहि ' (शा.भा ]-1-5) इति । तथा हि --- विषयस्य चलत्वसादृश्यादिदोषविरहः, आलोकस्य भलीमसत्वादिकारणवैकल्यं, अन्तःकरणस्य निद्राद्यदूषितत्वम् , आत्मनः क्षुत्प्रकोपाद्यनाकुलत्वम , ईक्षणयुगलस्य तिमिरपटलादिविकलत्वमित्यादि स्वयं च कार्यद्वारेण, परोपदेशेन च सर्व सुज्ञानम् । अतो निरवद्यकारणजन्यत्वात् प्रमाणमर्थक्रियाज्ञानमिति विद्मः ॥
प्राथमिकज्ञानेऽपि कारणदोषाभावनिश्चये प्रामाण्यं गृह्यत एव]
यद्येवं प्रथमे प्रवर्तक एव प्रत्यये कस्मात् कारणपरीक्षवेयं न क्रियते? किमर्थ क्रियाज्ञाने ? न -आयुष्मन् ! आद्येऽपि झाने कारणपरीक्षायां क्रियमाणायां कः प्रमादः? किमेवं सति स्वतः प्रामाण्यं सिद्धयति तव ? मम वा परतः प्रामाण्यमपहीयते? किन्तु लोकः प्रवर्तकज्ञानानन्तरं फलप्राप्ति प्रति यथा सोद्यमो दृश्यते, न
मरणादिहेतुर्भवति, तथाऽत्रापि तादृशानुभव एव तत्कारणम् । अनुभवश्व सत्य एव। न हि कश्चित् ‘मम सर्पज्ञानमेव न जातम्' इति मनुते ; किन्तु भकाण्ड एव तज्ज्ञानं जातम्' इत्येव । अतश्च ज्ञानमेव स्थलविशेषे अर्थक्रियाकारीति न दोषः। अधिकं ९ आह्निके ॥ ___ कारणदोषानेवाह तथा हीति । अप्रगल्भानां--परोपदेशेन चेति। चकारः वाऽर्थे ।
क्रियाज्ञाने-'अर्थक्रियाज्ञाने। अस्तु परतः प्रामाण्यं, तथाऽपि प्राथमिकज्ञाने कारणदोषाभावनिश्चयेनाऽपि प्रामाण्यनिश्चयस्य प्रतिद्धमशाक्यत्वे
'माणः-ख.
वर्तमाना-ख,