________________
आह्निकम् ३] परतःप्रामाण्ये नानवखादिः
447 धानम् ; अपरीक्षणीयप्रामाण्यत्वादर्थक्रियाशानस्य । प्रवर्तक न सर्वज्ञान प्रवृत्तिसिद्धये परीक्षणीयप्रामाण्यं वर्तते । फलज्ञाने तु सिद्धप्रयोजनत्वात् प्रामाण्यएरीक्षापेक्षैव नास्तीति कुतोऽनवस्था?
[अर्थक्रियाज्ञानस्य साक्षादनुभवरूपत्वेन प्रामाण्यनिश्चयानपेक्षत्वम् ]
संशयाभावाद्वा तत्प्रामाण्यविचाराभावः। प्रवर्तकं हि प्रथममुदकज्ञानमविद्यमानेऽपि नीरे मिहिरमरीचिषु दृष्टमिति तत्र संशेरते जनाः। अर्थक्रियाशानं तु सलिलमध्यतिनां भवत् तदविनाभूतमेव भवतीति न तत्र संशयः। तदभावान्न तत्र प्रामाण्यविचारः, विचारस्य संशयपूर्वकत्वात् ॥
भिर्थक्रियाज्ञान विशेषदर्शनरूपं च __विशेषदर्शनाद्वा फलज्ञाने प्रामाण्य निश्चयः। कः पुनरयं विशेष इति चेत्, योऽयं शौचाचमनमजनामरपितृतर्पणपटक्षालनश्रमतापनोदनविनोदनाद्यनेकप्रकारनीरपर्यालोचनप्रबन्धः, न ह्ययमियान् कार्यकलापो मिथ्याशानात्प्रवृत्तस्य क्वचिदपि दृष्टः॥
[स्वाप्निकार्थक्रियाज्ञानात् जाग्रदर्थक्रियाज्ञानं विलक्षणम् |
स्वप्नेऽप्यस्य प्रबन्धस्य दर्शनमस्तीति चेत्-न-स्वमदशाविसदृशविस्पष्टजाग्रदवस्थाप्रत्ययस्य संवेद्यत्वात्। एषोऽस्मि,
- प्रामाण्यापेक्षानपेक्षयोः संभावितं विनिगमकमाह-प्रवर्तकमिति । बहुवित्तव्ययायाससाध्ये यागादौ प्रवर्तकज्ञानं प्रामाण्यमपेक्षत एवेत्यनुपदमुक्तत्वात्-सर्वपदम्। सिद्धप्रयोजनत्वात्-पिपासाशान्त्यादोः स्पष्ट अनुभवात् ॥
प्रवर्तक-फलज्ञानयोवैषम्यमेवोपपादयति प्रकारान्तरेण-संशयाभावाद्वेति । तदविनाभूतं-अविनाभूतं ; न हि मरीचिकाजलेन पिपासाशान्ति:, शरीरक्लेदो वा संभाव्यतेत्याशयः ॥
स्वप्नदशाविसदृशेति। स्वामिकजलादिना स्वामिकशरीरक्लेदादिरनुभूयत एव। जाग्रत्कालिकशरीरक्लेदस्तु नास्त्येवेति अस्ति महत् वैलक्षण्यम् । यद्यपि 'चरमधातुविसर्गोऽपि स्वप्ने सीमन्तिनीमन्तरेण भवति' इत्युक्तम् (पु. 427); अथापि, अधीरप्रकृतीनां रजौ सर्पज्ञानमेव यथा भय-कम्प