________________
446
परतःप्रामाण्य समर्थनम्
न्यायमजरी
- वैयर्थं तु दृष्टे विषये सत्य मिष्यते, किन्तु तत्र प्रवृत्तिसामर्थ्येन प्रामाण्यं निश्चिन्वन् आप्तोक्तत्वस्य हेतोः प्रामाण्येन व्याप्तिमवगच्छतीति अदृष्टविषयोपयोगिवेदादिप्रमाणप्रामाण्यपरिच्छेदे पारंपर्येणोपायत्यात् स्वविषये व्यर्थोऽप्यसौ तत्र सार्थकतामवलम्बत इस्यदोषः॥
[प्रवृत्तिसामर्थ्य नाम अर्थक्रियाज्ञानमेव] .. . कि पुनरिदं प्रवृत्तिसामर्थ्य नाम ? यतः प्रामाण्यनिश्चयमाचक्षते नैय्यायिकाः--उच्यते-पूर्वप्रत्ययापेक्षोत्तरा संवित् प्रवृत्तिसामर्थ्य, विशेषदर्शनं वेति पूर्वाचार्यैस्तत्स्वरूपमुक्तम्। तत्पुनर्नातीव हृदयङ्गममिति भाष्यकृतैव-'समीहा प्रवृत्तिरित्युच्यते, सामर्थ्य पुनरस्याः फलेनाभिसम्बन्धः' इति वदताऽर्थक्रियाख्यफलज्ञानमेव प्रवृत्तिसामर्थ्यमिति नितिम् ॥
__ [अर्थक्रियाज्ञाने प्रामाण्यगवेषणमनपेक्षितम] __ यत्पुनः अर्थक्रियाज्ञानस्यापि पूर्वस्मात् को विशेषः ? तस्यापि 'चान्यत: प्रामाण्यनिश्चयापेक्षायानवस्थेत्युक्तम् (पु. 427)--- तदपि सकलप्राणभृत्प्रतीतिसाक्षिकव्यवहारविरोधित्वादसम्बद्धाभि
ननु तर्हि लोकोऽपि कुत्रचित् दृश्यमानायाः प्रामाण्यनिश्चयार्थप्रवृत्तः का गतिः? इति चेत्, न सर्वथा वैय्यर्थ्यमित्याह-किन्त्विति । आप्तोक्तत्वस्यभालोक्तत्वरूपस्य ॥
आचक्षते-'प्रवृत्तिसामर्थ्यादर्थवत् प्रमाणम् ' इति उपक्रमभाष्यम् । पूर्वप्रत्ययेत्यादि । संवादरूपेति यावत् पूर्व। (पु. 427) उपपादितदिशा संवादात् प्रामाण्यग्रहः दुर्घट इत्यतः-विशेषदर्शनं वेति। अर्थ,क्रयाज्ञानस्यापि विशेषदर्शनविशेषत्वात् तादृशं स्वसम्मतमेव । परन्तु संशयोत्तरस्तले संशयनिवर्तकं यत् विशेषधर्मदर्शनं, तत्त न साक्षात् प्रामाण्यनिश्चायकम् , अपितु अर्थक्रियाज्ञानद्वारैवेति भस्यैव प्रामाण्यनिश्चायकत्वं युक्तमित्यभिप्रायेण-अतीवेति॥
नाम्यन्तः-क.