________________
आह्निकम् ३] परतःप्रामाण्ये नान्योन्याश्रयादिदोषाः
445 शक्यते वक्तुम् । तत्र प्रथमप्रवर्तकप्रतिभासप्रसवसमये तावन्नास्त्येव प्रामाण्यनिश्चय इत्युक्तम् (पु. 140)। न हि नीलग्राहिणा प्रमाणेन 'नील'स्वरूपमिव स्वप्रामाण्यमपि तदानीं निश्चतुं शक्यत इति । कालान्तरे तत्प्रामाण्यनिश्चयः सत्यमस्ति, न तु तत्र नैरपेक्ष्यम् , प्रवृत्तिसामर्थ्याधीनत्वात्तन्निश्चयस्य ।।
ज्ञानानामस्थिरत्वेऽपि प्रामाण्यं परतोग्रहीतुं शक्यम् ] ननु। क्षणिकत्वाकालान्तरे ज्ञानमेव नास्ति, कस्य प्रामाण्यं निश्चिनुमः ? शिशुचोद्यमेतत्-अप्रामाण्यमपि बाधकप्रत्ययादिना कालान्तरे कस्य निश्चिनुमः? क्षणिकत्वेन ज्ञानस्यातीतत्वात् । अतिक्रान्तस्यापि स्मर्यमाणस्य ज्ञानस्य', 'तदुत्पादकस्य वा वर्तमानस्य कारकचक्रस्येति चेत् ---प्रामाण्यनिश्चयेऽपि समानोऽयं पन्थाः ॥
. [प्रामाण्यस्य परतोग्रहणेऽपि नान्योन्याश्रयादिः] यत्पुनः कालान्तरे तन्निश्चयकरणे दृषणम् --इतरेतराश्रयत्वं वा? मुण्डितशिरोनक्षत्रान्वेषणवद्वैयर्थ्य वेति वर्णितम् (पु. 428)तत्रादृष्टे विषये प्रामाण्यनिश्चयपूर्विकायाः प्रवृत्तरभ्युपगमान्नेतरेतराश्रयं चक्रकं वा। दृष्टे विषये ह्यनिर्णीतप्रामाण्य एवार्थसंशयात् प्रवृत्तिरूपम, अनर्थसंशयाच्च निवृत्त्यात्मकं व्यवहारमारभमाणो दृश्यते लोकः। एतदेव युक्तमित्युक्तं (पु. 139) न प्रामाण्यनिश्चयपुरस्सरं प्रवर्तनमिति कुत इतरेतारश्रयम् ॥ प्रवृत्तीत्यादि। न हि कालान्तरेऽपि पूर्वोत्पन्नममाणसामग्री अवतिष्ठेत॥ - अप्रामाण्यमपीति । अप्रामाण्यं परत इति हि तन्मतम् । पूर्णसामग्रयाः सत्त्वे कार्यावश्यंभवात् , कार्यस्य पूर्वमेव निष्पन्नत्वात् वर्तमानस्य कारकच. कस्येत्युक्तम् ॥
अनर्थसंशयात्- बलवदनिष्टानुबन्धित्वसंशयात् । प्रवर्तनं नोक्तं इत्यन्वयः ॥
3 लीन-ख.
। स्मर्यमाणस्य-क. ख.
तदुत्पादस्य-ख.