________________
444
परतः प्रामाण्मसमर्थन म्
[ न्यायमञ्जरी
एव च लोके नैर्मलयव्यपदेशः, न दोषाभावमात्रप्रतिष्ठ इत्यलं विमर्देन । तस्मादुत्पत्तौ गुणानपेक्षत्वात् स्वतःप्रामाण्यमिति यदुक्तं तदयुक्तम् ॥ [केवलस्य प्रमाणस्य स्वकार्ये न परानपेक्षत्वम् ]
यदपि च स्वकार्यकरणे प्रमाणस्य परानपेक्षत्वमुच्यते - तदपि व्याख्येयम् । किं प्रमाणं स्वकार्यकरणे निरपेक्षम् ? सामग्री वा ? तदेकदेशो वा ? तजन्यं वा ज्ञानमिति ॥
तत्र सामग्रयाः सत्यं स्वकार्यजन्मनि नैरपेक्ष्यमस्ति । न तु तावता स्वतः प्रामाण्यम्, तत्परिच्छेदस्य परायत्तत्वात् ॥
सामग्रथन्तर्गत कारकस्य स्वकार्ये परापेक्षत्वमपरिहार्यम् ; एकस्मात् कारकात्कार्यनिर्वृत्त्यभावात् ॥
ज्ञानं फलमेव न प्रमाणमित्युक्तम् (पु. 182 ) । न च फलात्मनस्तस्य स्वकार्य किञ्चिदस्ति, यत्र सापेक्षत्वमनपेक्षत्वं वाऽस्य चिन्त्येत । पुरुषप्रवृत्यादौ तु तदिच्छाद्यपेक्षत्वं विद्यत एवेति यतिञ्चिदेतत् ॥
[प्रामाण्यनिश्चयस्य पराधीनत्वम् ]
यदपि प्रामाण्यनिश्रये नैरपेक्ष्यमभ्यधायि (पु. 425 ) - तदपि न सांप्रतम् । प्रामाण्यनिश्चयस्य हि द्वयी गतिः, नास्तित्वम्, कारणा'पेक्षिता वा' ; न पुनरस्ति च प्रामाण्यनिश्चयः, कारणानपेक्षश्चेति
किं प्रमाणमिति । प्रमाणपदं हि प्रमायां तत्करणे च वर्तते । प्रमाकरणमपि यावत्सामग्रीरूपं, प्रत्येकशोऽपि प्रत्येकमपि करणत्वानपायात् । तथा च सामग्रयाः स्वकार्यकरणे नैरपेक्ष्यमुच्यते ? उत प्रत्येकं करणस्य तत्त्वमुच्यते ? उत फलरूपप्रमायाः तत्त्वमुच्यते इति विकल्पः ॥
सत्यं नैरपेक्ष्यमिति । इतरापेक्षायां हि सामग्रीवैकल्यं सिद्धमेव । न विति । प्रमासामी हि प्रमां जनयेत् न तु प्रमात्वमवगमयेत् ॥
6
पूर्वं तस्य प्रमाणभावे तु फलं हानादिबुद्धयः' (पु. 171 ) इत्युक्तं स्मरंन्नाह-- पुरुषेति ॥
द्वयी गतिरिति । तृतीया तु गतिः सदातनत्वरूपाऽननुभवपराहता ।
पेक्षिता-क.
2 कारणता - क.