________________
आह्निकम् ३] प्रामाण्यस्य गुणाधीनत्वम्
443 भवति, सम्यगसम्यग्वा। तत्र गुणवता कारणेन सम्यक्कार्यमुत्पद्यते, दोषवता त्वसम्यगिति ॥
[सामान्यसामग्रीजन्यं तु कार्य कुत्रापि न भवति निर्दोषं निर्गुणं धाऽपि न समस्येव कारणम् ।
अत एव तृतीयस्य न कार्यस्यास्ति संभवः ॥ ८ ॥
सम्यज्ज्ञानोत्पादकं 'कारकं धर्मि स्वरूपातिरिक्तस्वगतधर्मसापेक्ष कार्यनिर्तकमिति साध्यो धर्मः, कारकत्वात् , मिथ्याशानोत्पादककारकवत् । सम्यज्ज्ञानं वा धर्मि, स्वरूपातिरिक्तधर्म सम्बद्ध कारक निष्पाद्यमिति साध्यो धर्मः, कार्यत्वात् , मिथ्याज्ञानवत् ॥
प्रमाहेतोः गुणस्य सद्भावे प्रमाणम् ] आयुर्वेदागमाच्चेन्द्रियगुणान् प्रतिपद्यामहे । यदगी वैद्याः स्वस्थवृत्तरोषधोपयोगमुपदिशन्ति, तत् गुणोपयोगायैव; न दोषशान्तये । दृश्यते च तदुपदिष्टौषधोपयोगादिन्द्रियातिशयः। तद्विषय
निर्दोषमित्यादि । 'निर्विशेष न सामान्यम्' इति हि न्यायः। नीलपीतादियावद्धटविशेषा एव हि घटसामान्य नाम। नीलपीतादिविशेषरहितं घटो नाम सामान्य किञ्चिन्नास्त्येव। अत एव घटोत्पत्तिस्थले नीलायन्यतरविशेषसामग्री आवश्यकी। तत्परित्यज्य घटसामान्यसामग्रीति न काचिदऽस्ति। यद्यपि सामान्यकार्यकारणभाव: विशेषकार्यकारणभाव: इत्यादिव्यवहारोस्ति, परन्तु इदं निरूपणमात्रम् । विषयदृष्टया तु विशेषसामग्रीमन्तरा सामान्यसामग्री न तिष्ठेदेव। न हि नीरूपः कश्चित्कपालः तिष्ठेत्। एवं ज्ञानं प्रमाभ्रमभेदमिन्नं चेत , तयोस्सामग्रीभेदोऽपि दुरपह्नवः। अतश्च ज्ञानसामान्यसामग्रयैव प्रमाया उत्पत्तिरिति बालिशभाषितम् ॥
सम्यज्ञानेत्यादि। आद्यं अनुमान सामग्रीपक्षकं, द्वितीयं सामग्र्य (कार्य) पक्षकम् ॥
आयुर्वेदपदं संज्ञाऽत्र। ननु आयुर्वेदः रोगरूपदोषनिवृत्तिमेव वक्ति, न तु गुणमपीति चेत्तत्राह-स्वस्थवृत्तेरिति । रोगनिवृत्त्यनन्तरमपि हि पुष्टयादिगुणलाभायाप्यौषधमुपदिश्यत एव ॥
कारकर्मि-ख.
सम्बन्धवत्कारक-ख.
वेदाच्च-ख..