________________
442
परत:प्रामाण्यसमर्थनम्
न्यायमञ्जरी
न चासौ कल्प्यमानोऽपि व्यवहारस्य लोपकः । तेनैव व्यवहारस्य सिद्धत्वात्सर्वदेहिनाम् ॥ ७८ ॥ अतश्च संशयादेव व्यवहारं वितन्वताम् । लौकिकानां प्रयोक्तव्याः नाभिशापपरंम्पराः ॥ ७९ ॥
प्राथमिकज्ञानं अनवधारणरूपम् ] न च सर्वथा संशयसमर्थनेऽस्माकमभिनिवेशः। प्रामाण्यं तु ज्ञानोत्पत्तिकाले गृहीतुमशक्यमिति नः पक्षः। प्रामाण्याग्रहणमेवानध्यवसायस्वभावं संशयशब्देनेह व्यपदेक्ष्यामः। प्रामाण्याग्रहणं च प्रदर्शितम्। प्रत्यक्षेणानुमानेन वा सता प्रमाणेनात्मनः प्रमाणत्वपरिच्छेदायोगात् । तस्मात् स्वयं प्रामाण्यं गृह्यत इत्येष दुर्घटः पक्षः ॥
प्रामाण्यं स्वत उत्पद्यत इति पक्षोऽपि न युक्तः] अथ स्वतः प्रामाण्यं भवतीत्येष पक्ष आश्रीयते, सोऽप्ययुक्तः । कार्याणां कारणाधीनजन्मत्वात् , प्रामाण्यस्य च कार्यत्वात् । अस्ति च प्रामाण्यम् , वस्तु च तत् , न च नित्यम्, इति कार्यमेव तत् । कार्य च कार्यत्वादेव न स्वतो भवितुमर्हति इति ॥
[प्रमाणज्ञानं न ज्ञानसामान्यसामग्रीजन्यम् ) अथोत्पत्तौ स्वकारकातिरिक्तगुणानपेक्षित्वमेव प्रामाण्यस्य स्वतोभवनमुच्यते, न पुनरकार्यत्वमेवेति- तदप्यसम्यक् सम्यग्रूपस्य कार्यस्य गुणवत्कारकव्यतिरेकेणानिष्पत्तः। द्विविधं कार्य
ननु संशयात् प्रवृत्तिः कथमित्यत्राह-न चेत्यादि । तेनैवअनवधारणात्मकज्ञानेनैव । क्वचिदनधिकव्ययायाससाध्ये, मतादृशेऽपि उत्साहाचतिशये सति वा, संशयादपि प्रवृत्ति: लोके दृश्यत इत्यप्यवधेयम् ॥
कार्याणामित्यादि। ‘स्वत उत्पद्यते' इत्युक्ते शब्दतः कारणसामान्यापेक्षाभावः प्रतीयते इति इदं दूषणमुक्तम् ॥ ____ 'स्वत उत्पद्यते' इत्यस्य तरसम्मतमर्थमनूय दूषयति-अथेति । स्वं-ज्ञानम् ॥