________________
आहिकम् ३] प्राथामेकं ज्ञानं अनवधारणरूपम्
441 भो महात्मन् ! कथ्यतां सः विशेषः। न हि तं वयमनुपदिष्ट कृशमतयो जानीमः। यदि तावत् स्पष्टता विशेषः । शुक्तिकायामपि रजतावभासः स्पष्ट एव! न हि तत्रानध्यवसायकालुष्यं किञ्चिदस्ति ॥
अथ निष्कम्पता, शुक्तिकायामपि रजतावभासो निष्कम्प एव । न ह्यसौ जायमान एवामुल्यग्रादिवाक्यकरणबोधवत्कम्पमानो जायते ॥
___ अथ निर्विचिकित्सता, शुक्तिकायामपि रजतावभासो निर्विचिकित्स एव, किंस्विदिति कोटि द्वयानवमर्शात् ॥
अथ यस्मिन् सति बाधा न दृश्यते सोऽस्य विशेष इति, नन्वेतदेव पृच्छामि- कस्मिन् सति बाधा न दृश्यत इति; सर्वावस्थस्य बांधदर्शनात् । न चासो चिरमपि चिन्तयित्वा 'विशेषो दर्शयितुं शक्यः ॥
अथ स्वविषयाव्यभिचारित्वमेव विशेषः; स तदानीं नावमालत इत्युक्तम् (पु 427)। अपि च यदि तथाविधोऽपि विशेषः समस्ति, तर्हि यत्र ज्ञानेऽसौ न दृश्यते, ततः किमिति प्रवर्तते ? तद्विशेषदर्शी वा प्रवर्तमानः कथं विप्रलभ्येतेत्युक्तम् ॥
प्राथमिकज्ञानस्यानिर्णयात्मकत्वेऽपि न प्रवृत्त्यादिविरोधः] यदयं स्थाणुपुरुष संशय वदसंवेद्यमानोऽपि तदानीमस्त्येव बोधे यथाऽर्थतरत्वसंशयः ॥
स्पष्ट एवेति । न हि विषयप्रकाशनांशे वैलक्षण्यं दृश्यते ॥ निष्कम्पता--विषयाचाञ्चल्यम् , निष्कम्पप्रवृत्त्यङ्गतोपयुक्तम् ॥ निर्विचिकित्सता - असंशयरूपता, इयं च प्रवृत्त्योक व्यप्रतिबन्धिका ।
यस्मन्नित्यादि-बाधदर्शनानहतेति यावत् । सर्वावस्थस्यति। वस्तुतः प्रमात्मकमपि ज्ञानं कदाचित् विप्रलंभकवाक्यादिभि: अगृहीतदोषैः बाध्यत एव ॥
किमिति--कथम् ?
भाद्यज्ञानविषये (439 पुटे टीका) पूर्वोक्तं अभिसन्धायाह-स्थाणुपुरुषेत्यादि ।
। विशेषयितु-ख. 2 स्थाणुर्नपुरुष:-ख. (अनन्तरपुटानुवर्ति) निश्चय-ग.