________________
440
परतः प्रामाण्यसमर्थनम्
[ न्यायमरी
मन्यन्ते - इति । एवं रजतमिदमित्येक पक्षग्राह्यपि तदानीं प्रतिभासः वस्तुवृत्तेन संशय एव । यदि हि प्रमाणतयाऽसौ गृह्येत, कथं क्वचिद्विसंवदेत् ? अप्रमाणतया तु गृह्यमाणः कथं पुमांसं प्रवर्तयेत् ?
उभाभ्यामपि रूपाभ्यां अथ तस्यानुपग्रहः । सोऽयं संशय एव स्यात् इति किं नः प्रकुप्यसि ? ।। ७७ ।।
[ प्राथमिक ज्ञानस्य संशयात्मका पर्यवसानम् ]
यत्तु नानुभूयते संशय इति - सत्यम् - अननुभूयमानोऽपि न्यायादभ्यस्ते विषयेऽविनाभावस्मरणात् स परिकल्प्यते ; निश्चयनिमित्तस्य तदानीमविद्यमानत्वात् । संशयजननहेतोश्च सामग्रयाः सन्निहितत्वात् । तथा हि-यथाऽर्थेतरार्थसाधारणो धर्मो बोधरूपत्वमूर्ध्वत्वादिवत् तदा प्रकाशत एव । न च प्रामाण्याविनाभावी विशेषः कश्चन तदानीमवभाति । तदग्रहणे च समानधर्माधिगमप्रबोध्यमान' वासनाधीना' तत्सहचरितपर्यायानुभूतविशेषस्मृतिरपि संभवत्येवेतीयतीयं सा संशयजननी सामग्री सन्निहितैवेति कथं तज्जन्यः संशयः न स्यात् ?
[प्राथमिकज्ञाने तत्काले तत्र विशेषग्रहणासंभवः )
ननु ! प्रमाणभूते प्रत्यये जायमान एव तद्वतो विशेषः परिस्फुरतीति कथं विशेषाग्रहणमुच्यते ?
लेखः, कुत्रचित्तु कोटयन्तरानुल्लेखः भवसराभावादपि । इदमेव ज्ञानं संशयक्षमं अवधारणात्मकं प्राथमिकप्रवृत्तिहेतुः । न 'कोटिद्वयानवमर्शात् ' ( पु - 441 ) इति वक्ष्यमाणेन न विरोधः । 442 पुटोऽपि द्रष्टव्यः ॥
उभाभ्यां प्रामाण्याप्रामाण्याभ्याम् ॥ संशयः संशयरूपः । अभ्यस्ते - असकृदनुभूते । इतरस्थलेषु तथानुभवात् इत्यर्थः । इतरार्थः भयथार्थः ॥ जायमान एवेति । अयमर्थः ( 430 पु) पूर्वमुपपादितः ॥
1
वासना - क.
एताशेषु