________________
आह्निकम् ३] प्रामाण्यसंशयः न प्रवृत्तिप्रतिबन्धक:
439 सत्यमुक्तमयुक्तं तु। एवं हि वदता बाधकाभावज्ञानाधीनं प्रामाण्यमभिहितं भवति। तच्च तात्कालिक ? कालान्तरभावी वा? इति कल्प्यमानं नोपपद्यत इति दर्शितम (पु-426)। तस्मादुत्पद्यमानमेव प्रमाणमात्मनः प्रामाण्यं निश्चिनोतीति न युक्तमेतत् ।।
[प्रामाण्यसंशयादेव प्रवृत्तियुज्यते ] ... यदि तु प्रसवसमय एव ज्ञानस्य प्रामाण्यं निश्चिनुयामः, तर्हि ततः प्रवर्तमाना न क्वचिदपि विप्रलभ्ये महि'; विप्रलभ्यामहे तु । तेन मन्यामहे - न निश्चितं तत्प्रामाण्यं, संशयादेव व्यवहराम इति ॥
[प्राथमिकज्ञानं एकतरकोटिकसंशयरूपमेव] ननु ! संशयोऽपि तदा नानुभूयत एव 'किमिदं रजतम् ? उत न रजतम् ? ' इति ; अपि तु रजतमित्येव प्रतीतिः। न हि संशयानाः प्रवर्तन्ते लौकिकाः; किन्तु निश्चिन्वन्त एव विषयमिति किमननुभूयमान एवारोप्यते संशयः?
एकतरग्राह्यप्ययं प्रत्ययः, तनिश्चयोपायविरहात संशयकोटिपतित एव बलाद्भवति, यथा- अस्ति कूपे जलमिति भिक्षवो
प्रसवसमयः-उत्पत्तिक्षणः । पूर्व हि प्रामाण्य निश्चयस्य प्रवृत्त्यमगत्वं साधितमेव । तत्रैवं प्रवृत्यर्थमपि प्रामाण्यनिश्चयानपेक्षणात्, प्रवृत्त्यनन्तरं तु सुतरा तदनपेक्षणात, ज्ञानोत्पत्तिकाल एव यदि न गृहीतं प्रामाण्य, तर्हि कदापि ग्रहणं न स्यादित्यतः प्रामाण्यं स्वत इति सिद्धं-इति खलु तेषां वादः । एवञ्च प्रामाण्यनिश्चयस्य प्रवृत्त्यनङ्गत्वात्, तदानीं तदप्रहणमपि युज्यत एव । तर्हि कदापि तद्हण न स्यादित्येतत्तु पृथग्विधारयामः । परन्तु ज्ञानोत्पत्तिकाले प्रामाण्याग्रहणमित्येव युक्तमिति भावः ॥
रजतमित्येवेति ! न हि तत्र कोट्यन्तरोपस्थितिदृश्यते ॥
संशयकोटिपतित एवेति । अयमत्र निष्कर्षः - ‘एवं भिक्षवो मन्यन्ते !' इति कथने, वाक्यात् कोठ्यन्तरानुल्लेख नेऽपि अस्स्येव मानसिकी कोठ्यन्तरोपस्थितिः। कुत्रचित् अन्यतरकोटेः औत्कटयादपि कोट्यन्तरानु
। विप्रलमेमहि-क. 2 रजतम्-ख.