________________
438
परतःप्रामाण्यसमर्थनम्
न्यायमञ्जरी
.
मनुमापयितुमुन्सहते, न यथाऽर्थत्वलक्षणं प्रामाण्यम्। तद्धि फलं निर्विशेषणं वा स्वकारणस्य 'ज्ञातृ'व्यापारस्य प्रामाण्यनुमापयेत् ? यथार्थत्वविशिष्टं वा ? आये पक्षे यतः कुतश्चन फलात् तत्प्रामाण्यानुमाने नेदानि किश्चिदप्रमाणं भवेत् । उत्तरोऽपि नास्ति पक्षः, फलगतयाथाऽर्थ्यपरिच्छेदोपायाभावादित्युक्तम् ॥
. [प्रमाण्यस्य स्वतस्त्वे यथार्थायथार्थज्ञानयोरविशेषापत्तिः] ..
ननु ! 'स्वानुभव एवात्रोपायः। तद्धि नीलसंवेदनतया फलं स्वत एव प्रकाशते । नीलसंवेदनत्वमेव चास्य यथाऽर्थत्व, नान्यत्-यद्येवं शुक्तिकायामपि रजतसंवेदने समानो न्यायः । न हि रजतसंवेदनादन्या यथाऽर्थत्वसंवित्तिरिति ॥
[प्रामाण्यग्रहस्यौत्सर्गिकत्वं न युक्तम्] ननु! तत्र बाधकप्रत्ययोपनिपाते'नायथा'ऽर्थत्वमुपनीयते । नूनं चास्य मिथ्यादर्शनेषु देशान्तरे वा शुक्तिकारजतादिक्षाने, कालान्तरे कूटकार्षापणादिप्रतीतो, पुरुषान्तरे वा जाततैमिरिके द्विचन्द्रप्रतीतो, अवस्थान्तरे पीतशङ्खादिप्रतिभासे भवति बाधक प्रत्ययः। तदसत्वे न तच्छङ्का युक्तिमतीत्युक्तमेव ॥
मेवानुमातुं शक्यं, न तु तद्गतप्रामाण्यमपि । एतदेव विशदयति-तद्धीति । निर्विशेषणं फलं-यत्किञ्चित्फलम् । यतःकुतश्च नेति । भ्रमात्मकज्ञानस्यापि तदनुगुणं फलं अस्त्येव । उक्तं, अनुपदमेव॥
नीलसंवेदनतयेति । न हि संवेदनमात्रं फलं ; असंभवात् , अप्रयो जकत्वाच। शुक्तिकायामपीति। न हि शुक्तिरजतज्ञानसत्यरजतज्ञानयोरत्पत्तिकाले कश्चन विशेष: अनुभवसिद्ध इत्यर्थः ॥
ननु यत्रानन्तरं बाधकज्ञानमनुत्पन्नं तत्राप्रामाण्यग्रहः कथम् ? इति शक्लायां, देशान्तरे, कालान्तरे, पुरुषान्तरे, अवस्थान्तरे वा बाधकप्रत्ययः स्यादेवेत्याह--नूनं चेति । उक्तमेव-'दोषज्ञाने स्वन्ने' (पु-432.) इत्यादि ।
शान-क.
सोऽनुभव-ख.
न यथा-क.