________________
आह्निकम् ३]
प्रामाण्यस्वतस्त्वसाधकप्रमाण नायक
4:37
[प्रत्यक्षेण स्वगतप्रामाण्यग्रहणासंभवः | न तावत् स्वप्रामाण्यपरिच्छेदे नत्प्रत्यक्ष प्रमाणम्, तद्धि ज्ञानम्य वा प्रामाण्यं गृह्णीयात् तत्फलस्य वा तत्र ज्ञातृव्यापारात्मनो शानस्य भवन्मते नित्यपरोक्षत्वान , प्रत्यक्षम्य म्वतः परिच्छेदानुपपत्तौ तत्प्रामाण्यस्यापि कथं प्रत्यक्षेण ग्रहणम ॥
फलस्याप्यर्थप्रकाशनाख्यस्य संवेदनात्मनो नन्द्रसंसर्गयोग्यता विद्यते, येन तद्गतमपि यथाऽथत्वलक्षणं प्रामाण्य मिन्द्रियव्यापारलब्धजन्मना प्रत्यक्षेण परिच्छित ॥
न च मानसमपि प्रत्यक्षं फलगतयथाऽर्थतावसायसमर्थमिति कथनीयम् , तदानीमननुभूयमानत्वात् । न हि नीलसंवित्प्रसवसमनन्तरं यथाऽर्थेयं नीलसंवित्तिरिति संवेदनान्तरमुत्पद्यमानमनुभूयते । अनुभवे वा ततो द्वितीयात्प्रथमोत्पन्ननीलज्ञानयाथार्थ्यग्रहणान्न स्वतःप्रामाण्यनिश्चयः स्यात् । तस्मान्न प्रत्यक्षस्यैष विषयः॥
[अनुमानेन स्वगतप्रामाण्यग्रहणासंभवः] अनुमानेनापि कस्य प्रामाण्यं निश्चीयते? ज्ञानस्य ? फलस्य वा ? इति पूर्वव'द्वाच्यम् । फलस्य तावत्तन्निश्चये लिङ्गत्वमेव तावन्न कस्यचित्पश्यामः। ज्ञातृव्यापरात्मनो ज्ञानस्य तु स्वकार्य भवेदपि लिङ्गम , फलस्य क्रियामात्रव्याप्तिग्रहणात्स्वरूपसत्तामात्र
- भवन्मते - भट्टमते। ज्ञानसामान्यं अतीन्द्रियं, ज्ञाततालिङ्गकानुमितिग्रामिति मते प्रत्यक्षं आत्मानमप्यगृह्णत् स्वगतं प्रामाण्यं कथं स्वयं गृह्णीयात् ? . अननुभूयमानत्वात् । ज्ञानानामयोगपद्यात्। ननु ज्ञानायोगपद्यऽपि तद्गत्वादुत्तरस्य मानसप्रत्यक्षस्य तद्गत प्रामाण्यं गृह्यत एवेति चेत्, तर्हि परत: प्रामाण्यमेवागतमित्याह --- अनुभवे वेति ॥
फलस्य तावदिति । फलं हि स्वकारणानुमाने लि. भवितुमर्हति, कार्येण कारणानुमानात् । न तु फलस्यानुमानेऽन्यलिङ्गं, भवेत् । स्वकार्यउक्तज्ञानफलम् । क्रियामात्रति । फलेन हि तद्वेतुभूत नरूपक्रियामात्र
1 द्वाथम्-ख. 2 तावतुनिश्चये-क. ३ भवदपि-क.