________________
436
परत. प्रामाण्यसमर्थनम्
[ न्यायमरी
तु विषये वैदिकेष्वगणितद्रविणवितरणादिक्लेशसाध्येषु कर्मसु तत्प्रामाण्यावधारणमन्तरेण प्रेक्षावतां प्रवर्तनमनुचितमिति तस्य प्रामाण्यनिश्चयोऽवश्यकर्तव्यः । तत्त्र परत एव वेदस्य प्रामाण्यमिति
वक्ष्यामः ॥
[ प्रत्यक्षादावपि स्वतः प्रामाण्यं किं उत्पत्तौ ? उत ज्ञप्तौ ?]
'यच्चेद'मियता विस्तरेण स्वतः प्रामाण्यमुपपादितं, तत् व्याख्येयम् । स्वतः प्रामाण्यमिति कोऽर्थः ? किं स्वत एव प्रमाणस्य प्रामाण्यं भवति उत स्वयमेव तत् प्रमाणमात्मनः प्रामाण्यं गृहाति ? इति ॥
[ ज्ञातौ प्रामाण्यस्य स्वतस्त्वं न संभवति ]
न तावत् स्वयमेव प्रामाण्यग्रहणमुपपन्नम् ; अप्रामाणिकत्वात् । तथा हि-यदेतन्नीलप्रकाशने प्रवृत्तं प्रत्यक्षं तन्नीलं प्रति तावत् प्रत्यक्ष, प्रमाणं तावदिन्द्रियार्थसन्निकर्षोत्पन्नमिति जान्रीम एवैतत्; किमत्र विचार्यते ?
प्रामाण्यपरिच्छेदे तु किं तत् प्रमाणमिति चिन्त्यताम् । प्रत्यक्षम् ? अनुमानं वा ? प्रमाणान्तराणामनाशङ्कनीयत्वात् ॥
वक्ष्याम इति । अत्रैवाह्निके विपरीतख्यातिसमर्थनानन्तरं वक्ष्यति ॥
,
नीलं प्रतीति । विषयं प्रति प्रकाशरूपं तत् नात्मानं प्रतीत्यर्थः । ज्ञानानुमेयतावादिनां भाट्टानामेवात्र पूर्वपक्षित्वमिति स्मर्तव्यम् । ज्ञानस्वप्रकाशत्ववादस्तु नवमाह्निके परीक्ष्यते । इन्द्रियार्थसन्निकर्षोत्पन्नत्वात् स्वरूपतः प्रमाणम् । एतदुभयांशे न चर्चा । प्रामाण्यं उत्पत्तावपि परत एवेति आद्य: कल्पः उपरिष्टात् विचार्यते । ग्रहणस्यैव मुख्यत्वात् बुध्या सन्निहितत्वाद्वा एतत्कल्पस्य प्रथमं विचारः ॥
प्रमाणान्तराणामित्यादि । उपमानं शक्तिग्राहकं प्रमाणम्, अतिदेशवाक्यमूलकं च । शाब्दस्थले तु परत एव प्रामाण्यमित्यनुपदमुक्तम् ॥
1 तच्चद-क.
2
चिन्त्यम्-क.