________________
435
आह्निकम् ३] परतःप्रामाण्यसाधनोपक्रमः वेदे तु प्रणेतुः पुरुषस्याभावात् दोषाशङ्केव न प्रवर्तते, वक्तधीनत्वादोषाणान। न च बाधकप्रत्ययोऽद्य यायवेदार्थे कस्य चिदुत्पन्न इति निरपवादं वेदप्रामाण्यम्। आह च (श्लो. वा. १-१-२-६८)
'तत्रापवादनिर्मुक्तिर्वक्त्रभावाल्लधीयंसी।
वेदे तेनाप्रमाणत्वं न शङ्कामधिगच्छति' इति॥ तदिदमुक्तम्-'तत्प्रमाणं बादरायणस्यानपेक्षत्वात् ' (जै. सू. 1-1-5)
इति ॥
[दोषाभावमात्रं प्रामाण्यप्रयोजक, न गुणोऽपि] गिरां मिथ्यात्वहेतूनां दोषाणां पुरुषाश्रयात्। .
अपौरुषेयं सत्यार्थमिति युक्तं प्रचक्षते ॥ ७४ ॥ गिरां सत्यत्वहेतूनां गुणानां पुरुषाश्रयात् । पौरुषेयं तु सत्यार्थमित्ययुक्तं तु मन्यते ॥ ७५॥ . न हि पुरुषगुणानां सत्यतासाधनत्वं
वचसि खलु निसर्गादेव सत्यत्वसिद्धिः । गुणमपि नरवाचां विप्लवाधायिदोषप्रशमनचरितार्थ सङ्गिरन्ते गुणज्ञाः ॥ ७६ ॥
--परतः प्रामाण्यसाधनोपक्रमः
[वेदे प्रामाण्यनिश्चयस्यावश्यकता] अत्राभिधीयते-प्रत्यक्षादिषु दृष्टार्थेषुप्रमाणेषु प्रामाण्यनिश्चयमन्तरेणैव व्यवहारसिद्धस्तत्र किं स्वतः प्रामाण्यम् ? उत परतः ? इति विचारेण न नः प्रयोजनम् ; अनिर्णय एव तत्र श्रेयान् । अदृष्ट पूर्वम् (पु. 424)। अनपेक्षत्वात् -स्वप्रामाण्ये परापेक्षाभावात् ॥
कुतस्तथा मन्वते ? इत्यत्राह - न हीति । गुणमिति । क्वचिदिति शेषः॥
1 पौरुषेयं तु-ग.
28*