________________
434 प्रामाण्यस्वतस्त्वपरतस्त्वविचारः
न्यायमञ्जरी - यदितु द्वितीयज्ञानसंवादि तृतीयं शानं तदा प्रथमस्याप्रामाण्यम् । तञ्च परत इष्टमेव । द्वितीयस्य तु ज्ञानस्य न तृतीयसंवादकृतं प्रामाण्यम् ; अपि तु संकल्प्यमानकुशङ्काऽऽचमनमात्रे तस्य व्यापारः। उक्तं च (श्लो. वा. १-१-२-६१)--
'एवं त्रिचतुरज्ञानजन्मनो नाधिका मतिः। प्रार्थ्यते, तावत'वैकं' स्वत:प्रामाण्यमश्नुते' इति ॥ ..
[शब्दस्यापि स्वत:प्रामाण्यम्] तदेवं सर्वप्रमाणानां स्वतःप्रामाण्ये सिद्ध समानन्यायतया शब्दस्यापि तथैव प्रामाण्यं भवति। न च नैसर्गिकमर्थासंस्पर्शित्वमेव शब्दस्य स्वरूपमिति परीक्षितमेतत् (पु. 416)। किन्त्वर्थबोधजनकत्वात्तस्य नैसर्गिके प्रामाण्ये सति पुरुषदोषानुप्रवेशकारितः क्वचिद्धि विप्लवः। तदुक्तम् (श्लो. वा. १:१-२-६२)'शब्दे दोषोद्भवस्तावद्वक्तधीन इति स्थितम्' इति ॥
लौकिकवैदिकशब्दानां सर्वेषां स्वतः प्रामाण्यम्] तत्र पौरेषेये वचसि गुणवति वक्तरि तद्गुणापसारितदोषतया तत्प्रामाण्यमौत्सर्गिकमनपोदितं भवति। न तु गुणकृतं तत्प्रामाण्यम , अनङ्गत्वात्प्रामाण्ये गुणानाम् । बोधकत्वनिबन्धनमेव तदित्युक्तम् ।
ननु तृतीयज्ञानेन आयज्ञानेऽप्रामाण्ये गृहीते तेन द्वितीयं ज्ञानं प्रमेत्या वेदितं भवत्येव । ततश्च प्रामाण्यमपि परत एवेत्यत्राह-द्वितीयस्य विति । प्रथमज्ञानार्थमेवोत्पन्नं तृतीयज्ञानं द्वितीयज्ञाने न व्यापारयेदिति भावः । जन्मनः इति पञ्चमी। तृतीयज्ञानं निर्दुष्ट चेत् तावतैव आद्यज्ञाने प्रामाण्यनिर्णयः । यदि च तृतीयज्ञानेऽपि दोषशङ्का, तदा चतुर्थज्ञानेन द्वितीयं ज्ञानं संरक्ष्यते इति तदपरि संवादापेक्षा नास्त्येव. यतः पञ्चमज्ञानेन साध्यं द्वितीयेनैव साध्यते । नैसर्गिके--औत्सर्गिके ॥
तत्-प्रामाण्यम् । अर्थप्रकाशकत्वे प्राते प्रामाण्यमपि प्राप्यत एवेत्युक्त
1वैके-क.