________________
आहिकम् ३] कुत्रचित संशयोत्पत्ति: न प्रामाण्यस्वतस्त्यबाधिका 433
हठादुत्पाद्यमानस्तु हिनस्ति सकलाः क्रियाः। स्वभार्यापरिरंमेऽपि भवेन्मातरि संशयः ॥ ७२ ॥ विनाशी संशयात्मेति पाराशर्योऽन्यभाषत। 'नायं लोकोऽस्ति कौन्तेय ! न परः संशयात्मनः ॥७३॥ इति ॥
[स्थलविशेषे संशयोत्पत्तावपि न प्रामाण्यस्वतस्त्वहानिः यत्रापि च कचिद्वाधकप्रत्यये संशयो जायते तत्रापि तृतीयमानापेक्षणान्नानवस्था। न च तावता स्वतःप्रामाण्यहानिः। यत्र प्रथमविज्ञानसंवादि तृतीयज्ञान'मुत्पद्यते तत्र प्रथमस्य प्रामाण्यमौत्सर्गिकं स्थितमेव । द्वितीयविज्ञानारोपितालीककालुष्यशङ्कानिराकरणं त्वत्य तृतीयेन क्रियते ; न त्वस्य संवादात् प्रामाण्यम् ॥ इत्स्यायास्यतीति चेत् , संशयत्वं-अप्रमात्वमिति न पर्यायः । अतो न दोष इति भावः। ननु सामान्यत उत्पन्नेऽपि ज्ञाने 'इदं ज्ञानं प्रमा ? न वा ? ' इति संशयस्य कुत्रचित् दर्शनात् , प्रमात्वे गृहीते तादृशसंशयानुत्पादात् , सर्वत्र संशयः कल्पनीय इति शङ्कां तीक्ष्णोक्तिभिः समाधत्ते-- हठादिति। अत्र संशय इत्याकर्षः । मातरि---विषयसप्तमी। भार्यायामिति शेषः । पाराशयः-ग्यासः। 'संशयात्मा विनश्यति' (गी. 4-40) इति क्रमः । नायमिति। 'नायं लोकोऽस्ति न परः न सुख संशयात्मनः' (गी. 4-40) इति प्रायः पाठः ॥ ___ बाधकप्रत्यये इति निमित्तसप्तमी। तेन प्रामाण्यस्यैवौत्सर्गिकस्वमुक्तम् । कुतो न हानिः ? इत्यत्राह-योति। आद्य रजतज्ञानं, द्वितीयं'ममोत्पन्न ज्ञानं प्रमा? न वा ? ' इति संशयरूपम्, तृतीयं आद्यज्ञानसंवादि 'रजतमेवेदम्' इति । अनेन द्वितीयज्ञानारोपिताप्रामाण्याशङ्कानिवर्तनमानं क्रियते, न तु नूतनतया प्रामाण्यग्रहः। यदा च तृतीयं ज्ञानं 'नेदं रजतं' इत्येवंरूपं, तदा तत् बाधकज्ञानरूपमेवेति तेनाप्रामाण्यमेव गृह्यते । अप्रामाण्यस्य परतस्त्ववादिनां तु तदिष्टमेव ॥
'मुत्पाद्यते-क.
NYAYAMANJARI