________________
421
प्रामाण्यस्वतरस्वपरतस्त्वविचार:
अत एवाप्रमाणत्वं परतोऽभ्युपगम्यते । जन्मन्यपेक्षते दोषान् बाधकं च स्वनिश्वये ॥ ५३ ॥
तस्मान्नोत्पत्तौ गुणापेक्षं प्रमाणम् ॥
[स्वायमजरी
[कार्येऽपि न कारकाम्वरापेक्षा ]
,
नापि स्वकार्यकरणे किञ्चिदपेक्षते अर्थप्रकाशनस्वभावस्यैष तस्य स्वहेतोरुत्पादात् । अर्थप्रकाशनमेव च प्रमाणकार्यम प्रवृत्यादे:पुरुषेच्छानिबन्धनत्वात् ॥
तथा चोक्तम
नैव वा जायते ज्ञानं जायते या प्रकाशकम्। अर्थप्रकाशने किञ्चित् न तुत्पन्नमपेक्षते ॥ ५४ ॥
'मृद्दण्डचक्रसूत्रादि घटो जन्मन्यपेक्षते । उदाहरणे त्वस्य तदपेक्षा न विद्यते ' इति ॥ अथवा - सापेक्षत्वं घटस्यापि सलिलाहरणं प्रति । यत्किञ्चिदस्ति, न त्वेवं प्रमाणस्योपपद्यते ॥ ५५ ॥ मन्त्र स्वग्रहणापेक्षं ज्ञानमर्थप्रकाशकम् । तस्मिन्ननवबुद्धेऽपि तत्सिद्धेश्चक्षुरादिवत् ॥ ५६ ॥
अपेक्षते । प्रमाणज्ञानमिति शेषः । ज्ञानस्य स्वरूपमेव हि तादृशं अतः तत्र न कारणान्तरापेक्षा ॥
ननु ज्ञानस्य परमं फलं प्रवृत्तिर्वा निवृत्तिर्वा । तच्च प्रमाणेनैव भवितुमर्हति । न हि ज्ञानपामान्यात् पुरुषः प्रवर्तते इति अस्ति दोषाभावस्याप्यपेक्षेत्यत्राह--प्रवृत्त्यादेरिति । नैवेति । जातं ज्ञानं अर्थप्रकाश रूपमेव जायेत, अथवा न जायते । तस्मादुत्पन्नं ज्ञानमर्थप्रकाशने म स्वरूपसामप्रयतिरिक्त कारणान्तरमपेक्षते । सदपेक्षा- कारकान्तरापेक्षा ॥
ननु तर्हि पुरुषव्यापारमन्तराऽपि घटः उदकमाहरेत् इति शङ्कायामाह -- अथवेति । घटस्य जडत्वात् अस्ति जलाहरणे पुरुषाद्यपेक्षा । ज्ञानं तु स्वतः अर्थप्रकाशनसमर्थं तत्र न कारणान्तरमपेक्षते । न चान्ततः ज्ञानं स्वयं गृहीत मेव अर्थप्रकाशकमिति, तत्रास्ति कारणान्तरापेक्षेति वाच्यम्, ज्ञानग्रहणमन्तराऽवि विजयभानोपपत्तेः । भाद्वैतयाङ्गीकारात् । प्रकरणं सर्वमिदं श्लोकवार्तिक