________________
428 प्रामाण्यस्वतस्त्वपरतस्त्वविचारः
न्यायमजरी तदतिरिक्ततद्गतगुणा'पेक्षा वा ?' कारकस्वरूपमात्रापेक्षायां सिद्ध. साध्यत्वम् । असत्सु कारकेषु कार्यस्य ज्ञानस्यात्मलाभाभावात् कस्य प्रामाण्यमप्रामाण्यं वा विन्त्यते?
- [गुणानां सद्भावे न किञ्चिरप्रमाणम् ] - कारकातिरिक्ततदधिकरणगुणापेक्षणं तु दुर्घटम् । अप्रामाणिकत्वेन कारणगुणानामाकाशकुशेशयसहशवपुषां अपेक्षणीयत्वा.. भावात
न कारणगुणग्राहि प्रत्यक्षमुपपद्यते। चक्षुरादेः परोक्षत्वात् प्रत्यक्षास्तगुणाः कथम ॥ ४९ । लिङ्गं चादृष्टसम्बन्धं न सेपामनुमापकम् । यथाऽर्थबुद्धिसिद्धिस्तु निर्दोषादेव कारकात् ॥ ५० ॥
ज्ञानसामान्यसामप्रयाः अन्यतररूपत्वं अवर्जनीयम् ] यदि हि यथाऽर्थत्वायथाऽर्थत्यरूपद्वयरहितं किञ्चित उपलब्ध्याख्यं कार्य भवेत् , ततः कार्यत्रैविध्यात् कारणत्रैविध्य मवश्यमवसीयेत-यथाऽर्थोपलब्धेः गुणवत्कारकं कारकं, अयथाऽ अॅपलब्धेः दोषकलुषं कारकं कारकम्, उभयरहितायास्तु तस्याः स्वरूपावस्थितमेव कारकं कारक मिति । म त्वेवमस्ति। द्विविधैव खल्वियमुपलब्धिः --यथाऽर्थत्वयथाऽर्थत्वभेदेन ॥
सिद्ध साध्यत्वं-अस्यैवास्मरसम्मतस्वतस्त्वरूपत्वात् । आत्मालामःउत्पत्तिः ॥
परोक्षत्वात्-अतीन्द्रियत्वात् । ननु ज्ञानसामान्यसामग्रीमात्राधीनं यदि प्रामाण्यं, तर्हि अप्रमायामपि सामान्यसामग्रयाः सत्वात् तदपि स्वत एवं स्थादित्यत्राह-यथार्थति। तथा च दोषाः अप्रामाण्यज्ञाने विशेषसामग्री, भतो न तत् स्वतः । दोषाभावमात्रादेव सामान्यसामग्री प्रमाजनिवेति न दोषः ।।
कार्यत्रैविध्यं विशदयति----यथार्थोपलब्धेरित्यादि। .
1पेक्षा-क.