________________
418
आदिकम् ३} प्रामाण्यस्वतस्स्वपरतस्त्वविचारोपक्षेपः यथार्थेतरवे। अत एवालिशिखराधिकरणकरेणुशतवचसि पाधितेऽपि पुनः पुनरुश्चार्यमाणे भवति विभ्रमः, प्रकाशत्वरूपान. पायात। न त्वेष शब्दस्य दोषः ।।।
पदार्थानां तु संसर्गमसमीक्ष्य प्रजल्पतः ।
वक्तुरेव प्रमादोऽयं न शब्दोऽत्रापराध्यति ॥४३॥ तदुक्तम् --प्रमाणान्तरदर्शनमत्र बाध्यते, न पुनहस्तियूथशतमिति शाब्दोऽन्वयः। पुरुषो हि स्वदर्शनं शब्देन परेषां प्रकाशयति । तत्र तदर्शन 'च इष्ट, दुष्टः शाब्दप्रत्ययः। अदुष्टं चेत्, अदुष्ट इति गुणवतः पुरुषस्यादुष्टं दर्शनं भवति, दोषवतो दुष्टमिति । अदृष्टाऽपि वस्तु यदुपदिश्यते सोऽपि बुद्धिदोष. एव । तस्मात् पुरुषगतगुणदोषान्वयव्यतिरेकानुविधायित्वात् तत्कृते एव शाब्दयथार्थत्वायथार्थस्वे। तदुक्तम्-'तत्त्वमपि भवति वितथमपि भवति' इति ॥
. [उपसंहारः] तेनाभिधातृदौरात्म्यकृतेयमयथार्थता। प्रत्ययस्येति शब्दानां नार्थासंसर्शिता स्वतः ॥ ४ ॥ या तु जात्यादिशब्दार्थपराकरणवर्मना । अर्थासं स्पर्शिता प्रोक्ता', सा पुरस्तानिषेत्स्यते ॥ ४५ ॥
[मामाण्यस्वतस्त्वपरतस्त्वविचारोपक्षेपः] . प्रमाणत्वं तु शब्दस्य कथमित्यत्र वस्तुनि । जैमिनीयैरयं तावत्पीठबन्धो विधीयते ॥ ४६॥ प्रामाण्यमप्रामाण्यं वा सर्वविज्ञान'गोचरः।
स्वतो वा परतो वेति प्रथमं प्रविविच्यताम् ॥ ४७ ॥ प्रमाणान्तरं-शब्दप्रयोगहेतुभूतं प्रत्यक्षादि। अर्थ बुध्या हि शब्दरचना ॥ निषेत्स्यते-पञ्चमार के जातिसमर्थनादिभिः ।।
शब्दस्य वस्तुनि प्रमाणत्वं--इस्यन्वयः। अथवा, इत्यत्र वस्तुनिहस्यस्मिन् विषये। प्रामाण्यमिति । 'सर्वविज्ञान विषयं इदं तावत्परीक्ष्यताम् । चेत-क. पश्रितोच्येत-क. गोचरम्-क.
27*