________________
418
शधप्रामाण्यपरीक्षा
न्यायमचरी
विक्षिपति--धिक ! हा! तेन दुरात्मना विलब्धोऽस्मि' इति । म शब्दम्। प्राप्तफलश्च पुमांसमेव दयाधते 'साधु साधुना तेनोपदिष्टम्' इति। अतः पुरुषदोषान्वयानुविधानात् पुरुषदोषकृत एव शब्दाद्विप्लवः, न स्वरूपनिबन्धनः। तदभावकृत एव आप्तेषु तूष्णीमा मीनेषु विभ्रमानुत्पाद इति न सन्दिग्धो व्यतिरेकः ॥
अर्थासंस्पर्श: नाप्यप्रामाण्यसाधकः] ननु! पुरुषदोषास्तत्र किं कुर्युः! पुरुषस्य हि 'गुणवतो दोषवतो वा शब्दोच्चारणमात्र एव व्यापारः। ततः परं तु कार्य शध्दायत्तमेवेति तत्स्वरूपकृत एवायं विभ्रमः ॥
हम्त! तर्हि वक्तरि गुणवति सति 'सरितस्तीरे फलानि सन्ति' इति सम्यक्प्रत्ययेऽपि शब्दस्यैव व्यापारात् पुरुषस्योञ्चारणमात्र चरितार्थत्वाकान्ततः शब्दस्यार्थासंस्पर्शित्वमेव स्वभावः। युक्तचैतदेव-यदीपवत्प्रकाशत्वमात्रमेव शन्नस्य स्वरूपम् ; न यथार्थत्व. मयथार्थत्वं धा। विपरीतेऽप्यर्थे दीपस्य प्रकाशत्वानतिवृत्तः । अयं तु विशेष:-प्रदीपे व्युत्पत्तिनिरपेक्षमेव प्रकाशत्वम्, शब्दस्य तु व्युत्पस्यपेक्षमिति। प्रकाशात्मनस्तु शब्दस्य वक्तगुणदोषाधीने
साधुः---अजुमतिः । आप्तेषु तूष्णीमासीनेषु इति शब्दष्यति रेकोपपादनार्थम् ॥
'किं कुर्युः?' इत्यस्यैव विवरण-पुरुषस्येत्यादि। ज्ञाना प्रमावतदभावों हि करणस्वरूपाधीनौ। शाब्दबोधेच करणं शब्द एवं । तत प्रभास्वतदभावौ तदधीनावेव वक्तव्यो। पुरुषगुणदोषौ तत्र किं कुर्यास्ताम् ? नहि दाहहेतुरमिः प्रयोजकपुरुषानुगुणं व्यस्यस्यति इति भावः ॥
धक्तरीत्यादि। अयमाशयः -- सत्यं करणाधीनावेव तौ । परन्तु पुरुषदोषात् करणमपि दुष्टं भवत्येव । न हि एतानि करणानि स्वतन्त्राणि । चक्षुरादावपि हि तुल्यैव रीतिः । अतः बोधजनने शब्दानां साम्येऽपि, प्रमावतभाषी अम्वयव्यतिरेकाम्या वक्तृगुणदोषाधीनी इति शब्दाना भार्या संस्पर्शित्वं न स्वभावकृतम् ।।
पापवतो-क.