________________
416 शब्दप्रामाण्यपरीक्षा
न्यायमचरी [बाधकज्ञाने सत्यपि शब्दः प्रवर्तते] ____ अपि च न चक्षुरादि वाधकज्ञानोदये 'सति न' विरमति: विपरीतवेदनजन्मनःशुक्तिकारजतादिबुद्धिषुविभ्रमस्यापायदर्शनात्। शब्दस्तु शतकृत्वोऽपि वाध्यमानो यथैवोच्चरितः ‘करशाखा शिखरे करेणुशतमास्ते' इति तथैव तथाभूतं भूयोऽपि विकल्पमयथार्थमुत्पादयत्येवेति विकल्पाधीनजन्मत्वाच्छब्दानामेवेदं रूपं यत् अर्था- . संस्पर्शित्वं नामेति । तदुक्तम्
'विकल्पयोनयः शब्दाः विकल्पाः शब्दयोनयः। तेषामन्योन्यसम्बन्धे नार्थ शब्दाः स्पृशन्त्यमी' इति ॥ ..
[शब्दानां अर्थासंस्पर्शित्वं न स्वभाव इति सिद्धान्तः] अत्राभिधीयते-भवेदेतदेवं ; यदि न कदाचिदपि यथार्थ शब्दः प्रत्ययमुपजनयेत्, अर्था संस्पर्शियमेवास्य स्वभाव इति गम्येत। भवति तु गुणवत्पुरुषभाषितात् 'नद्यास्तीरे फलानि सन्ति' इति वाक्यात् अतिरस्कृतवाह्यार्थों यथार्थः प्रत्ययः; ततः प्रवृत्तस्य तदर्थप्राप्तेः । न चेयमर्थप्राप्तिरर्थस्पर्शशून्यादपि शब्दविकल्पात् पारंपर्येण मणिप्रभामणिबुद्धिवदवकल्पत इत्युपरिष्टात् वक्ष्यामः॥
ननु ! गुणवद्वक्तकादगुल्यादिवाक्यात् दृष्ट एवासमीचीनः प्रत्ययः-मैवम-गुणवतामेवंविधवाक्योच्चारणचपलाभावात ॥
व्यतिरेकतः शब्दानामयं स्वभावः, अर्थमन्तरापि प्रवृत्तिः इति । शुक्तिरजतादौ अधिष्ठानतया वाऽर्थसंस्पोऽस्तिीति अलीककेशादिनः निरधिष्ठानभ्रमविषयत्वेनावगतस्य कथनम् ॥
न न विरमति-इत्यन्वयः। अपायः-निवृत्तिः ॥ गुणवदिति। गुणाः-प्रमादप्रतारणाद्यभावरूपाः ।। अङ्गल्यादिवाक्यात्-अङ्गुल्यमे हस्तियूथशतमास्ते इत्यादिवाक्यात् ।
1 सती--ग.
अर्थ-ख.
अवगम्यते-ख