________________
आद्विकम् ३] शब्दप्रामाण्यसमर्थनम्
415 [वेदप्रामाण्यस्थापनम्] अत्राभिधीयते-सर्व एवैते दोषा यथाक्रम परिहरिष्यन्त 'इत्यलमस'माश्वासेन। सुप्रतिष्ठमेव वेदप्रामाण्यमवगच्छत्वायुष्मान् ॥
[शब्दसामान्यस्याप्यर्थाजन्यत्वं स्वभावः] ननु! अर्थासंस्पर्शित्वमेव तावत्कथं परिहियते। न हि बाह्येऽर्थे शब्दाः प्रतीतिमादधति। ते हि दुर्लभवस्तुसंपर्कविकल्पमात्राधीनजन्मानः स्वमहिमानमनुवर्तमानास्तिरस्कृतबाह्यार्थसमन्वयान् विकल्पप्रायान् प्रत्ययानुत्पादयन्तो दृश्यन्ते-'अमुल्यग्रे हस्तियूथशतमास्ते' इतीतिस्वभाव एव शब्दानामर्थासंस्पर्शित्वम् ॥
- . [शब्दस्य चक्षुरादिवैलक्षण्यम्] चक्षुरादीनामपि अलीककचकूर्चकादिप्रतीतिकारणत्वमस्ति, न च ते गमर्थासंस्पर्शित्वमिति चेत् : 'न; तेगं हि तिमिरादिदोषकलुषितवपुषां तथाविधविभ्रमकारणत्वम, न तु स्वमहिम्नेव । इहापि पुरुषदोषाणामेष महिमा, न शब्दानामिति चेत, मैवम ; दोषवतोऽपि पुरुषस्य मुकादेरनुचारितशब्दस्येशविप्लवोत्पादनपाटवाभावात् । असत्यपि व पुरुषहृदयकालुष्ये यथाप्रयुज्यमानान्यङ्गुल्य ग्रादिवाक्यानि विप्लवमावहन्त्येवेति शब्दानामेवैप स्वभावः, न वक्तदोसणाम् ।
. अडल्यग्रइत्यादि। न ह्यस्मात् वाक्यात् बोध एव न भवतीति वक्तं शयम , व्युत्पन्नानां तस्यानिवार्यत्वात् । किन्तु जातो बोधः प्रमा वा ? इति विचारः स्यात् । स बन्यो विषयः । शब्दास्तु असत्यपि अर्थे बोधमुत्पादयितुमल मिति तु दुरपह्नवम् ।। ___ ननु चक्षुरादिकमपि कदाचिदलीकरजतादौ प्रवर्तत एवेति प्रत्यक्षमपि न प्रमा स्यादित्याशंश्य, शब्द-चक्षुषोवैलक्षण्यमाह चक्षुरादीनामिति । यथा प्रमुज्यमानेति। लीलया, यदृच्छया, प्रमादाद्वेति हेतुः। तथाचान्वय
इस्यतं स-ख.
2 तेषां-ख.