________________
414
शम्दप्रामाण्यपरीक्षा
न्यायमञ्जरी
[वेदानां प्राप्तोक्तत्वकृतं प्रामाण्यमपि दुर्वचम् ] पदे नित्येऽपि वैदिक्यो रचनाः कर्तृपूर्विकाः? नित्या वा? कृतकत्वेऽपि कृताः केनेति दुर्गमम् ॥ ३५ ॥ कर्ताऽस्ति स च निर्द्वन्द्वः स चैकः स च सर्ववित् । स च कारुणिको वेति प्रतिपत्तुं न शक्यते ॥ ३६॥ .
[व्याघातादिभिः न वेदा: प्रमाणम् ] परस्परविरुद्धाश्च सन्ति भूयांस आगमाः। तेषां कस्येश्वरः कर्ता कस्य नेति न मन्महे ॥ ३७ ।। वेदे दोषाश्व विद्यन्ते व्याघातः पुनरुक्तता। फलस्यानुपलभश्च तथा फलविपर्ययः ॥ ३८॥ . . कीदृशश्वार्थवादानां विरुद्धार्थाभिधायिनाम् । मन्त्राणां नामधेयादिपदानां वा समन्वयः ॥ ३ ॥
[वेदे व्युत्पत्तिरपि दुस्स्थिता सिद्धकार्योपदेशाच्च वेदे संशेरते जनाः। किमस्य कार्ये प्रामाण्यं सिद्धेऽर्थे योभयत्र वा ? ॥ ४० ॥ तेन वेदप्रमाणत्वं विषमे पथि वर्तते।
जीविकोपायबुद्धया वा श्रद्धया वाऽभ्युपेयताम् ॥ ४१ ॥ पद इति । पदानां नित्यत्वेऽपि तद्रचनाविशेषरूपाणां वेदवाक्याना कथं नित्यत्वम्॥ ____ 'तदप्रामाण्यं मनृतव्याघातपुनरुक्तेभ्यः' (न्या. सू. 2-1-58) इत्युक्तं संगृह्णाति-परस्परेति । 'उदिते जुहोनि' 'अनुदिते जुहोति' इति विरुद्धयोर्मध्ये कस्य ईश्वर: कर्ता ? कस्य न ? अन्यतराप्रामाण्ये तदृष्टान्तेनेतराप्रामाण्यं जागत्येव । एवं पुत्रेष्टौ कृतायामपि कदाचित्फलं व्यभिचरति इत्यनृतत्वम् । 'त्रि:प्रथमामन्याह' इत्यादि: पुनरुक्तिः ॥
सिद्ध इनि। वैदिकेष्वेवास्ति विवादः, किं वेदानां सिद्धपरत्वम् ? उत कार्यपरत्वम् ? इति । एतादृशानवस्थादुस्स्थत्वात् शब्द: न प्रमाणम् । यद्यपि शब्दसामान्याप्रामाण्यसाधन एवोपक्रमः, अथापि वेदप्रामाण्यरक्षण एव शब्द. प्रामाण्यसमर्थनस्य परमोद्देश्यतेति ज्ञेयम् ॥