________________
माह्निकम् ३] शब्दप्रामाण्याक्षेपः
413
413 [जात्यादीनां शब्दार्थत्वानुपपत्तिः] अर्थो निरूप्यमाणश्च को वा शब्दस्य शक्यते? वक्तुं, न जातिन व्यक्तिः न तद्वान्नाम कश्चन ॥ ३० ॥
शब्दार्थयोः संबन्धोऽपि दुर्वच:] सम्बन्धोऽप्यस्य नार्थेन नित्योऽस्ति समयोऽथ वा? शक्यः, सन्नपि वा बोद्धमर्थे कथमतीन्द्रिये? ॥ ३१ ॥
वाक्यानामर्थप्रत्याययकत्वं दुर्वचम् वाक्यार्थोऽपि न निर्णेतुं पार्यते पारमार्थिकः । नियोगभावनामेदसंसर्गादिस्वभावकः ॥ ३२ ॥ तत्प्रतीत्यभ्युपायश्च किं 'पदार्थः' पदानि वा ? वाक्यं वा व्यतिपक्तार्थ स्फोटो बेति न लक्ष्यते ॥ ३३ ॥ सिद्धायामपि तद्बुद्धौ तस्या ढिमकारणम् ।
नित्यत्वमाप्तोक्तत्वं वा न सम्यगवतिष्ठते ॥ ३४ ॥ न जातिरिति । जातिमात्रस्य शब्दार्थत्वे, व्यक्तिबोधो न स्यात् । म्यक्तिमात्रस्य तथात्वेऽननुगमात व्यत्यन्तरबोधनं न स्यात् । जातिमान् पदार्थस्तु कश्चन नास्त्येव, कृत्स्नैकदेशादिविकल्पदुस्स्थत्वात् ॥
समयः-संकेतः शक्त्यपरपर्यायः। स नित्यश्चेत् शब्दस्यापि नित्यत्वप्रसङ्गः । अनित्यश्चेदनवस्थादुस्स्थितिः। अतीन्द्रियेऽर्थे च तादृशसम्बन्धग्रहणं कथम् ? कुत्रापि केनापि 'अयमस्यार्थः' इति प्रदर्शयितुमशक्यत्वात् ॥
— एवं प्रत्येक पदानां बोधकत्वासंभवे, विशिष्टवाक्यार्थः नियोगादिरपि न संभवतीत्याह-वाक्यार्थोऽपीति। नियोगः वाक्यस्यार्थ इति प्राचीनमीमांसकाः, भावनेति नवीनाः । परन्तु पदैर्वा, पदवाच्यैरथैर्वा, वाक्याद्वा, स्फोटेन वा तादृशार्थ: न कस्याप्यनुभवसिद्धः । कथञ्चिट्ठोधनेऽपि तादृशवाझ्यार्थे प्रामाण्यं कथम् ? नित्यत्वादिकृतं तु दुर्वचमेवेत्यर्थः॥
1पदार्थाः-क.