________________
412
शब्दप्रामाण्यपरीक्षा
न्यायमञ्जरी
[शब्दः न विवक्षामात्रानुमापकः] एतेन विवक्षाविषयत्वमपि (पु. 404) प्रत्युक्तम् । न हि विवक्षा नाम शब्दस्य वाच्यो विषयः, किन्त्वर्थ एव तथा ॥
विवक्षायां हि शब्दस्य लिङ्गत्वमिह दृश्यते । आकाश इव कार्यत्वात् न वाचकतया पुनः ॥ २६ ॥ शब्दादुच्चरिताच्च वाच्यविषया तावत्समुत्पद्यते संवित्तिस्तदनन्तरं तु गमयेकामं विवक्षामसौ । अर्थोपग्रह वर्जितात्तु' नियमान्सिद्धवमा जीवता तद्वाच्यार्थ विशेषिता त्वविदिते नैषा तदर्थे भवेत् ॥ २७॥ .
[शब्दप्रामाण्याक्षेपः] ननु ! सिद्धे प्रमाणत्त्वे भेदाभेदपरीक्षणम। क्रियते, न तु शब्दस्य प्रामाण्यमवकल्पते ॥ २८ ॥
[शब्दानां अर्थासंस्पर्शित्वम् । अर्थप्रतीतिजनकं प्रमाणमिति वर्णितम् । विकल्पमात्रमूलत्वात नाथ शब्दाः स्पृशन्त्यमी ॥ २९ ॥
नवाच्यः विषयः--वाच्यतया न विषय इति भावः । विवक्षाया. मित्यादि । शब्दस्य कार्यत्वात् समवायिकारणतया यथा शब्दः आकाशानुमाने हेतुर्भवति, तथा इच्छामन्तग शब्दप्रयोगासंभवात् तच्छन्दोच्चारणेच्छामनुमापयेत शब्दः, न त्वर्थम् । शब्दादर्थप्रतीतेरेवाभावे 'एतदर्थबोधेच्छया उच्चरितः' इति कथं वक्तुं शक्यम् । नानार्थकस्थलेऽपि बोधा: प्रथमं जायन्त एव। एषु का प्रयोक्तुरभिमतः इति संशये परं तात्पर्यापरनामिका इच्छाऽन्वेषणीय प्रकरणादिभिः । अतश्च आप्तोक्तत्ववत् इदमपि न शाब्दबोधहेतुः । शाब्दबोधजननानन्तरमपेक्षणीयमस्तु कामम् ॥
विकल्पेति । नियमेन प्रवृत्तिनिमित्तपूर्विका शब्दप्रवृत्तिः । तेन नामजात्यादिकल्पनामूलकत्वमनिवार्यमिति शब्दानां यथार्थविषयत्वं नास्त्येव ॥
1 वर्जिता तु-ख.
2जीविता-ख.