________________
आब्लिकम ३] शम्दानुमानयोविषयमेद:
411 [शब्दानुमानयोर्विषयभेदादपि भेदः] यत्पुनरभिहितम् (पु. 403) (श्लो. वा.-१-३-५. शब्द. २३)'आप्तवादाविसंवादसामान्यादनुमानता'.
इति-तदतीव सुभाषितम् ! विषयभेदात् । आप्तवादत्वहेतुना हि शब्दार्थबुद्धः प्रामाण्यं साध्यते ; न तु सैव जन्यते। यदाह (श्लो. बा. 1-1-7-244, 246) .. 'अन्यदेव हि सत्यत्वमाप्तवादत्वहेतुकम् ।
वाक्यार्थ'श्चान्य' एवेह ज्ञातः पूर्वतरं च सः ॥ ततश्चेदाप्तवादेन सत्यत्वमनुमीयते । वाक्यार्थप्रत्ययस्यात्र कथं स्यादनुमानता ॥ जन्म तुल्यं हि बुद्धीनामाप्तानाप्तगिरां श्रुतौ ।
जन्माधिकोपयोगी च नानुमायां त्रिलक्षणः' इति ॥ न च प्रामाण्य निश्चयाद्विना प्रतिभामात्रं तदिति वक्तव्यम् । शब्दार्थसंप्रत्ययस्यानुभवसिद्धत्वात् ॥
साध्यतेनिश्चीयते। सैव-अर्थविषकबुद्विरेव। उक्तमेव उपपादयति कुमारिलवाक्यैः यदाहेति । 'इदं वाक्यं सत्यम् ? उत न?' इति संशये भाप्तोक्तत्वनिश्चये सत्यरवनिश्चयः। तद्वाक्यात् प्रथमं अर्थप्रतीतिर्जातैव । अतः माप्तोक्तत्वं प्रामाण्यनिश्चयहेतुः, न तु शादवोधहेतुः। आप्तानां अनाप्तानां वा वाक्ये श्रुते शाब्दबोधः भविशेषेण जायत एव। अतः आप्तत्वसंवादात् न बोधजननम् । 'अनुमायां च त्रिलक्षणो हेतु: जन्माधिकोपयोगीन' इत्यन्वयः । तथा च बोधजननं न त्वदुक्तहेतुजन्यमिति शब्दो नानुमानम् । पूर्वपक्षिणः बौद्धस्य दृष्टया 'विलक्षणः' इति । तत्-शाब्दानुभवरूपं ज्ञानम् । प्रामाण्यनिश्चयात पूर्व जातं ज्ञानं केवल भानमात्रं, न तु वास्तविकमिति वक्तुं न शक्यं, अनुभवविरुद्धत्वात् ॥
श्वान्य-क.