________________
410 शब्दस्यातिरिक्तप्रमाणत्वपरीक्षा
न्यायमजरी स्थविरव्यवहारे हि बालः शब्दात् कुतश्चन ।
दृष्ट्वाऽर्थमवगच्छन् । स्वयमप्यवगच्छति ॥ २५ ॥
यत्रा'प्येवं समयः क्रियते, एतस्माच्छब्दादयमर्थस्त्वया प्रति पत्तव्य इति-तत्रापि प्रतीतिरेव कारणत्वेन निर्दिष्टा द्रष्टव्या। तस्मादन्यो लिङ्गलिङ्गिनोरविनाभावो नाम सम्बन्धः, अन्यश्च शब्दार्थयोः समयापरनामा वाच्यवाचकभावः सम्बन्धः 'प्रती.. त्यङ्गम् । एवंविधविषयभेदात् सामग्रीभेदाच्च प्रत्यक्षवदनुमानादन्यः । शब्द इति सिद्धम् ॥
शब्दानुमानयोनविलक्षण्यम् ] यत्त पूर्ववर्णक्रमापक्षणादिवलक्षण्यमाशय दूषितम (पु. 402) -कस्तत्र फल्गुणाये निर्बन्धः॥
ननु ज्ञायमानो धूम एव करणमित्युक्तम् ? इति शङ्कायां स्वाशयं विवृणोनिस्थविरेत्यादि कुतश्चन शब्दात्-इत्यन्वयः। व्यवहाराच्छक्तिग्रहस्यानुमानिकत्वं सर्वसम्मतमेव। तथा च धूमावह्नयनुमानस्थले महानसादौ प्रत्यक्षादेव धूमवयोः अविनाभावरूपसम्बन्धनिर्णय: प्रकृते तु वृद्धव्यवहारकाले ऽनुमानात वाच्यवाचकभावरूपसम्बन्धनिर्णयः । ततश्चानुमानाधीनप्रवृत्तिकः शब्दः कथं अनुमान स्यात् ? ननु अनुमानपूर्वकमप्यनुमानं भवितुमर्हति, धूमात वह्ननुमाने, तेन तत्र पुरुषानुमानात् इति चेत् ; तथापि अनुमानात् वाच्यवाचकभावस्यैवावगमः । वाच्यवाचकभावश्च नाविनाभावरूपः । शब्दार्थयोरविनाभाव: निराक्रियत एवेति । किञ्च धूमवह्नयोः सम्बन्धः न सङ्केतमूलकः, किन्तु स्वाभाविकः ॥
प्रतीतिः --तादृशप्रतिपत्तव्यत्वविषयकप्रतीतिः । अन्यः-विलक्षणः । प्रत्यक्षवदिति । यत्किञ्चित्सम्बन्धमूलकत्वमात्रात् क्रोडीकारे इन्द्रियार्थसम्बन्धमूलकं प्रत्यक्षमपि अनुमान स्यादित्याशयः ॥
'इत्यादिना विशेषेण ' (पु. 402) इति पूर्वपक्षिणैव वैलक्षण्यकथनात् नास्मामि: वक्तव्यमवशिष्यत इत्यभिप्रायेणाह-फल्गुप्राय इति ॥
। तत्रा-ख. अविनाभावो नाम सम्बन्धः अन्यश्च शब्दार्थयो: “ समयापरनामा वाच्यवाचकभाव: सम्बन्ध: कारणत्वेन निर्दिष्टा द्रष्टव्या तस्मादन्यो लिलिनिनोरविना-. भावात्-ख. 'स वाच्यवाचकभावः सम्बन्धप्रतीत्यङ्गम्-क.