________________
आह्निकम् ३) शम्दसामग्रया: अनुमानसामग्रीवलक्षण्यम्
409 खरूपासत्त्वात् कुतोऽन्वयग्रहणम् ? उत्पन्नायां त्वर्थबुद्धौ किमन्वयग्रहणेनेति नैष्फल्यम्। तत्पूर्वकत्वे तु पूर्ववदितरेतराश्रयम्। एतेन व्यतिरेकग्रहणमपि व्याख्यातम् ॥
[शब्दार्थयोरन्वयव्यतिरेकसमर्थनं, तहषणं च] ननु ! आवापोद्वापद्वारेण शब्दार्थसम्बन्धे निश्चीयमाने उपयुज्यते एवान्वयव्यतिरेको। यथोक्तम् (श्लो. वा. 1-1-7-160)
'यत्र योऽन्वेति यं शब्दमर्थस्तस्य भवेदसौ' इतिसत्यमेतत्-किन्तु समयबलेन सिद्धायामर्थबुद्धौ समयनियमार्थावन्वयव्यतिरेको शब्दे ; नान्वयव्यतिरे'ककृता' च धूमादेरिवाग्नेः ततोऽर्थबुद्धिः॥ अपि च
धूमादिभ्यः प्रतीतिश्च नैवावगतिपूर्विका। ... इहावगतिपूर्वव शब्दादुत्पद्यते मतिः ॥ २४ ॥
आवावेत्यादि। आवापोद्वापाभ्यां शक्तिग्रह इति सिद्धान्तेऽपि सम्मतम् । शक्तिग्रहो नाम अयं शब्दः एतदर्थवाचीत्येवंरूपः वाच्यवाचकभावग्रह एव। तथा च तत्र शब्दार्थयोरन्वयव्यतिरेको दृष्टावेवेत्यर्थः । समयबलेनेति । 'गामानय' इतिवाक्यश्रवणपमनन्तरं गवानयने प्रवृति पश्यतः सामान्यतः 'इदं गवानयनं एतच्छब्दमूलं' इति शक्तिग्रहे सिद्ध 'कस्य पदस्य गौः अर्थः ? कस्य आनयनम्.' इत्यनवगमे,-'घटं आनय' 'अश्वं बधान' इत्याद्यावापोद्वापाभ्यां सामान्यतो गृहीतां शक्तिं विशिष्य जानाति बालः। नात्र शक्तिग्रहः भावापोद्वापात्, किन्तु तेन नियममात्रमिति नानुमान
रूपमिति भावः ॥
ननु सामान्यशक्तिरपि अन्वयव्यतिरेकाधीनकार्यकारणभावग्रहमूलैव वक्तव्येति चेत् -तर्हि अनुमानासामान्यशक्तिग्रहः, ततो नियमज्ञानं, ततशक्तिनिश्चयः, ततः शाब्दबोधः कालान्तरेऽपि-इति अनुमानपूर्वकोऽयं शाब्दबोध: नानुमानं भवितुमर्हतीत्याह-अपि चेति ॥
1काकृता-क.