________________
408 शब्दस्यातिरिक्तप्रमाणत्वपरीक्षा
न्यायमञ्जरी पक्षत्वप्रतिक्षेपान्न तद्धर्मतया गत्वादिसामान्यस्य लिङ्गता। न चार्थस्य धर्मित्वम: सिद्धयसिद्धिविकल्पानुपपत्तेः। न च तद्धर्मत्वं शब्दस्य शक्यते वक्तुम् । तत्र वृत्त्यभावात् । प्रतीतिजनकत्वेन तद्धर्मतायामुच्यमानायां पूर्ववदितरेतराश्रयः; पक्षधर्मादिवलेन प्रतीतिः, प्रतीतौ च सत्यां पक्षधर्मादिरूपलाभः ॥
शब्द: न सर्वथाऽर्थधर्मः] अपि च यद्यर्थधर्मतया शब्दस्य पक्षधर्मत्वं भवेत्, तदाऽनवगतधूमाग्निसम्बन्धोऽपि यथा धूमस्य पर्वतधर्मतां गृह्णात्येव, तथाऽनवगतशब्दार्थसम्बन्धोऽपि अर्थधर्मतां शब्दस्य गृह्णीयात् . न च गृह्णातीत्यतो नास्ति पक्षधर्मत्वं शब्दस्येति ॥
[अनुमानसामग्रीरूपत्वमपि दुर्वचम् अन्वयव्यतिरेकावपि तस्य दुरुपपादौ ; देशे काले च शब्दाथंयोरनुगमाभावात्। न हि यत्र देशे शब्दः तत्रार्थः। यथोक्तं श्रोत्रियैः--'मुखे हि शब्दमुपलभामहे, भूमावर्थम्' इति। वयं तु कर्णाकाशे श्रोत्रमुपलभामहे-इत्यास्तामेतत् ॥
नापि यत्र काले शब्दः तत्रार्थः ; इदानीं युधिष्ठिरार्थाभावेऽपि 'युधिष्ठिरशब्दसद्भावात् । अर्थशब्दार्थयोः अन्वयाभावेऽपि तद्वद्धयो'रन्वयो ग्रहीष्यते इत्युच्यते । तर्हि वक्तव्यं- किं अर्थबुद्धावुत्पन्नायामन्ययो गृह्यते? अनुत्पनायां वा? अनुत्पन्नायां तावत् ___ननु ‘गोपदवाच्यः कः ?' इति तात्पर्येण 'कः.गौः?' इति प्रश्न:, 'अयं गौः' इत्युत्तरं च सर्वानुभवसिद्धम्। अतः कथञ्चित् शब्दार्थयो: सम्बन्ध उपपादनीयः । तमादायैव अर्थस्य पक्षत्वमुपपादयामः-इति शंकायां आह-- अपि चेति । उक्तप्रश्नगतगवादिपदानि वाच्यपर्यन्तं उपचरितानि । अन्यथा व्याप्तिमजानतोऽपि, प्रथमं वा धूमवान् पर्वत इतिवत् वाच्यवाचकनामजानतोऽपि 'अयं गौः' इति प्रत्ययः स्यात् । अतः शब्दः नार्थधर्मः ॥
चकारः घाऽर्थे । वयं त्वित्यादि । 'भूमावर्थम्' इति तु स्थितमेव ।
1 तबुद्धयो-ख.