________________
आह्निकम् ३] शब्दानुमानयोः सामग्रीभेदादपि भेदः
407 ज्वलनादावपि तुल्यो विकल्प इति चेत् । न हि तत्राग्निधूमेन जन्यते, अपि तु गम्यते । इयं त्वर्थप्रतीतिर्जन्यते शब्देनेत्यस्यामेव सिद्धासिद्धत्वविकल्पावसरः। तस्मात् विधाऽपि न शनस्य पक्षत्वम् ॥
शब्दस्य पक्षस्वमसम्मवि च] अपि च गोशब्दे धर्मिणि गत्वादिसामान्यात्मकस्य हेतोग्रहणं, ततो व्याप्तिस्मरणम्, ततः परामर्शः, ततोऽर्थप्रतिपत्तिरिति कालदाघीयस्त्वात् धर्मी तिरोहितो भवेत्। न पर्वतवदवस्थितिः
तस्य'। अपि तूचरितप्रध्वंसि त्वं शब्दस्य। न च शब्दमर्थवत्वेन लोकः प्रतिपद्यते, किन्तु शब्दात् पृथगेवार्थमिति न सर्वथा शब्दः पक्षः । अतो धर्मविशिष्टस्य धर्मिणः साध्यस्येहासंभवाच्छब्द लिङ्गयोर्महान् विषयभेदः॥
[शब्दानुमानयोः सामग्रीभेदादपि वैलक्षण्यम्] सामग्रीमेदः खल्वपि- --पक्षधर्मान्वयादिरूपसापेक्षमनुमान व्याख्यातं, शब्दे तु न तानि सन्ति रूपाणि । तथा च शब्दस्य
ज्वलनादाविति। - अग्निविशिष्टधूमस्य पक्षत्वात् साध्यस्य पक्षेऽन्तर्भावः समान एव। न हीति। अग्निवैशिष्ट्यं च धूमे व्याप्यन्यापक. भावतः, न तु जन्य जनकभावतः। तादृशं च लिङ्गं अग्नेर्गमकमिति न भन्योन्याश्रयस्य, सिध्यसिद्धिविकल्पस्य वा प्रसक्तिः। प्रकृते तु शब्दाधीनबोधस्य शदविशेषणत्वात् दोष एव । अत एव वाच्यवाचकभावसम्बन्धात अर्थविशिष्टः शब्दः अर्थस्य ग़मको भवस्विति शंकाऽपि निरस्ता। वाच्यवाचकमावस्यैव गमकत्वरूपत्वात्, तस्यैव विचार्यमाणत्वात् ॥ ... गत्वादि-अत्र आदिना तदुत्तर'ओत्व'मादिग्रहणम् । धर्मी-शब्द।। ननु तर्हि शब्दस्य पक्षत्वं कुत्रापि न स्यात्, ततश्च शब्दानित्यत्वाद्यनुमानानामपि जलाअलिरित्यतः अनुभवविरोधमाह-न चेति । यद्यपि लोकेऽपि अर्थवानयं शब्दः, निरर्थकोऽयं शब्द इत्यादिरस्ति व्यवहारः, अथापीदमभ्युच्चयदृषणं भवतु, मुख्यदूषणं तु आदावेवोक्तम् ॥
1 तस्या:-ग.
2 त्वाच्छशब्दस्य-क.