________________
406
शब्दस्यातिरिक्तपमाणत्वपरीक्षा न्यायमञ्जरी 'सा देशस्याग्नियुक्तस्य, धूमस्यान्यैश्चकल्पिता' (श्लो-वा-अनु-48) इति । एवं गोशब्द एवार्थवत्वेन साध्यताम! 'गोशब्दत्वादित्यादि सामान्यं च हेतूक्रियताम् ! इति-एतदपि दुर्घटम्-शब्दस्य धर्मिणः किं अर्थविशिष्टत्वं वा साध्यते ? प्रत्यायनशक्तिविशिष्टत्वं वा? अर्थप्रतीतिविशिष्टत्वं वा?
न तावदर्थविशिष्टत्वं साध्यम् ; शैलज्वलनयोरिव शब्दार्थयोः धर्मधर्मभावाभावात् ।।
अथार्थ विषयत्वाच्छब्दस्यार्थविशिष्टतेत्युच्यते । तदप्ययुक्तम्। तत्प्रतीतिजननमन्तरेण तद्विषयत्वानुपपत्तेः। प्रतीतौ तु सिद्धायां किं तद्विषयत्वद्वारकेण तद्धर्मत्वेन? यदि तु तद्विषयत्वमूला तद्धर्मत्व• पूर्विकाऽर्थप्रतीतिः, अर्थप्रतीतिमूल तद्विषयत्वम, तदितरेतराश्रयम्।। तस्मानार्थविशिष्टः शब्दः साध्यः ॥ नाप्यर्थप्रत्यायनशक्तिविशिष्टः ; तदर्थितया शब्दप्रयोगाभावात्।। न शक्ति सिद्धये शब्दः कथ्यते श्रूयतेऽपि वा। .
अर्थगत्यर्थमेवामुं शृण्वन्ति च वदन्ति च ॥ २२ ॥ नाप्यर्थप्रतीतिविशिष्टः शब्दः पक्षतामनुभवितुमर्हति ; सिद्धयसिद्धिविकल्पानुपपत्तेः॥
असिद्धयाऽपि तद्वत्त्वं शब्दस्थार्थघिया कथम?
सिद्धायां तत्प्रतीतौ वा किमन्यदनुमीयते ॥२३॥ मनुमेयामाहुरित्याह -धूमस्येति" इति न्यायरत्नाकरः। अन्तरेणेति न हि शब्दः बुध्यादिवत् सविषय: पदार्थः । सिद्धायामिति। तदेव खल्वद्य विचार्यते । अतः तथा विवक्षा न संभवति। विवक्षायां च अन्योन्याश्रयो जागरूकः। अर्थस्य शब्दधर्मत्वसिद्धौ, बोधसंभवः। बोधे जात एव तन्नि बन्धनतद्वर्मत्वसिद्धिः इति । तदर्थितया- तदपेक्षया-तदिच्छया ॥
विशिष्ट इति। वैशिष्टयं चात्र न जन्यजनकभावरूपं, किन्तु पूर्वोत्तरकालसम्बन्धित्वमात्रम् । तेन अनुपदोक्तात् इतरेतराश्रयग्रस्तपक्षात विशेषः॥
1 गोत्वादि-क.
यथार्थ-क.