________________
405
आह्निकम् ३]
शब्दस्यानुमानद्वैलक्षण्यवर्णनम्
[पदानामन्वयबोधकत्वविचार ननु पदान्यपि वाक्यार्थवृत्तीनि सन्ति--गोमान , औपगया. कुम्भकार इति--सत्यम्-फिन्तु तेष्वपि साकाङ्क्षताऽस्त्येव : पदान्तरमन्तरेण निराकाङ्क्ष'प्रत्ययानुत्पादात्। गोमान् कः? इत्याकाङ्क्षाया अनिवृत्तेः ॥
अपि च पर्वतादिविशेष्यप्रतिपत्तिपूर्विका पावकादिविशेषणाव गतिर्लिङ्गादुदेति। पदात्तु विशषणावगतिपूर्विका विशेष्यावगतिरिनि विषयभेदः ॥
[शब्द: हेतुरेव, न पक्षः) ननु ! उक्तं- यथाऽनुमाने धर्मविशिष्टो धर्मी साध्यः, एव. मिहार्थविशिष्टः शब्दः साध्यो भवतु- मैवम्-शब्दस्य हेतुत्वात् । । न च हेतुरेवं पक्षो भवितुमर्हतीति ॥
[शब्दस्य हेतुत्वेऽपि अनुमानासंभवः] ननु ! यथाऽग्निमानयं धूमः, धूमत्वात् महानसधूमवदित्युक्तं..
पदानीति। गोमान् इति पदेन हि गोस्वामिरूपः गोविशिष्टपुरुषरूप: विशिष्टोऽर्थः प्रतीयते। तत्रं गोपदार्थस्य पुरुषस्य च स्वत्वस्वामिस्वादिकमपि नेनैव पदेन प्रत्याय्यम् । अतः पदमपि अन्वितमेवार्थ वाक्यार्थरूपं बोधयत्येव । ततश्च 'तद्वन्मात्र' पदस्यार्थ, अनुमान तु वाक्यार्थविषकं' इति गतमेवेत्याशयः । इदं च 'सुप्तिङन्तं पदं' इति पदलक्षणामिप्रायेण। 'शक्तं पदं इति, सिद्धान्ते तु 'गोमान्' इति विशिष्टे नैका शक्तिः, अतश्च योधकत्वमपि न विशिष्टस्येति नायमाक्षेपः ॥
__ अनिवृत्तरिति । ततश्च न तावन्मानं शब्दप्रमाणं, विचारस्तु तदधिकृत्यैव। 'गोमान्' इत्यत्र प्रकृतिप्रत्ययभावात् कथञ्चित् विशिष्टबोधजननेऽपि, अनुमिते: पक्षसाध्यादिविशिष्टप्रतीतिरूपत्वात् , तादृश: बोधः न एकेन पदेन संभवति, वाक्ये तु शक्तिर्नास्तीति पूर्वोक्त युक्तमेवेति भावः ॥
विशेषणेति। पार्णिक एव खलु विशिष्टबोधः॥
अग्निमा निति । व्याप्तेः सम्बन्धरूपत्वात् एवं व्यवहारः पूर्व (पु-311) मप्युपपादितः। नैय्यायिकास्तु धूममेव धर्मीकृत्य तस्यैवाग्निविशिष्टता
' साकाईता-ख, मईति-स्व.