________________
404
शब्दस्यातिरिक्तप्रमाणस्वपरीक्षा
न्यायमञ्जरी
[शब्दस्यानुमानान्तर्भावे युक्तयन्तरम् किञ्च शब्दो विवक्षायामेव प्रामाण्यमश्नुते । न बाहो; व्यभिचारित्वात् तस्यां चैतस्य लिङ्गता ॥ २१ ॥
[शब्दस्यातिरिक्तप्रमाणत्वसाधनम् ] 'तत्राभिधीयते। द्विविधः शब्दः, पदात्मा वाफ्यात्मा चेति । तत्र वाक्यमनवगतसम्बन्धमेव वाक्यार्थमवगमयितुमलम् । अभिनव-.. विरचितश्लोकश्रवणे सति पदसंस्कृतमतीनां तदर्थावगमदर्शनात् । अतः सम्बधाधिगममूलप्रवृत्तिनाऽनुमानेन तस्य कथं साम्य- . संभावना ॥
पदस्य तु सम्बन्धाधिगमसापेक्षत्वे सत्यपि सामग्रीभेदात् : विषयभेदाच्चानुमानाद्भिन्नत्वम्। विषयस्तावद्विसदृश एवं पदलिङ्गयोः। तद्वन्मात्रं पदस्थार्थ इति च स्थापयिष्यते (५ आह्निके) । । अनुमानं तु वाक्यार्थविषयम् ---अत्राग्निः, अग्निमान् पर्वत इति ततः प्रतिपत्तेः। उक्तं च (पु. 311) तत्र धर्मविशिष्टो धर्मी साध्य इति ।।
किञ्चत्यादि। 'एतदर्थशेधेच्छया भयं शब्दः प्रयुक्तः ' इति खलु जानाति लोकः शब्दश्रवणसमनन्तरम् । अनेन शब्दस्य वक्तृगतेच्छाविशेषानुमापकत्वं स्पष्टम् । अतः तादृशेच्छायां शब्दः लिङ्गम् । न तु बाहो .... घटादौ। अतद्बोधेच्छया उच्चरितेन शब्देन तद्बोधस्यापि जननात् । अतः इच्छानुमानमन्तरा शब्दो न बोधमितुमलम् । इच्छायो चानुमितायां तद्विषयतयाऽर्थप्रतीति: । अतः शब्दः नार्थाशे प्रमाणम्। इच्छाया आन्तरस्वात् बाझा'. इति पदम् ॥
अनवगतसम्बन्धमेवेति, वाक्ये शत्यनङ्गीकारात् । तस्य- वाक्यस्यः
तद्वन्मात्रं --जातिविशिष्टव्यक्तिमात्रम् । मात्रचा परस्परान्वयव्युदासः । स तु संसर्गमर्यादालभ्य इति वक्ष्यते । एवञ्च वाक्यात अर्थप्रतीतौ तावति शक्तरभावात् सम्बन्धाभावामानुमानप्रसरः। पदेन तु व्यक्तिमात्र बोध्यते, नान्वयादिः। अतस्तत्रापि पदस्य वाक्यार्थस्य च च कश्चन सम्बन्ध इति नानुमानप्रसर इत्यर्थः ॥
1 अत्रा -क.
-गमन-ख.