________________
403
आह्निकम् ३] शम्दस्यानुमानरूपत्वं वैशेषिकस्यापि सम्मतम्
दृष्टान्तनिरपेक्षत्त्वमभ्यस्ते विषये समम्। अनभ्यस्ते तु सम्बन्धस्मृतिसापेक्षता द्वयोः॥१६॥ अनेकप्रतिभोत्पत्तिहेतुत्वमपि विद्यते । अस्पष्टलि) कस्मिंश्चिदश्व इत्यादिशब्दवत् ॥ १७॥ स्फुटार्थानवसायाश्च प्रमाणाभासतो यथा । लिङ्गे तथैव शब्देऽपि नानार्थभ्रमकारिणि ॥ १८ ॥ अपि च प्रतिमामात्रे शब्दाजानेऽपि कुत्रचित् । आप्तवादत्वलिङ्गेन जन्यते निश्चिता मतिः ॥ १९ ॥
[शब्दस्यानुमानरूपता समानतन्त्रानुमता] अत एव हि मन्यन्ते शब्दस्यापि विपश्चितः । आप्तवादाविसंवादसामान्यादनुमानताम् ॥ २०॥
समानवेत्याह-दृष्टान्तेति। ननु एक एव अश्वादिशब्दः, श्रोतृप्रतिभानुगुणं, मृगविशेष-श्वोऽभवित्राद्यर्थान् बहून् प्रत्याययति, न तथा धूमः नानाऽर्थान् प्रत्याययति किन्तु वह्निमेकं। एवं स्फुटार्थत्वास्फुटार्थत्वादिभेदः शब्दे दृश्यते, न धूमादौ। अतः अस्ति महदन्तरं इति शंकायामाह -- अनेकेत्यादि । अस्पष्टलिङ्ग इति। धूमधूलीपटलसाधारणाकारज्ञानात्, एकस्य वयनुमितिः, अपरस्य सेनाद्यनुमितिरिति दृश्यत एव अनुमितावपि प्रतिपत्तिभेदः। इदं च वैभवेन, स्पष्टलिङ्गकेऽपि विवक्षानुगुणं प्रतिपत्तिभेदः दृश्यत एव । यथा धूमात् . वह्नयनुमितिः, तथैव कदाचित् तृणादेः, मनुष्यसद्भावस्य वाऽनुमानं यथाऽपेक्षं
भवत्येव। एवं स्पष्टास्पष्टप्रतीत्यादिकमपि यथाऽनुभवं तुल्यमेव। अनुमानापेक्षत्वस्य शब्देऽवर्जनीयतया, ततोऽपि तस्य न स्वतन्त्रप्रमाणतेत्याहअपिचेति॥
विपश्चित:-कणादप्रशस्तपादादयः। एतेन शाब्दं व्याख्यातम्' (९.२-३) इत्यादिसूत्रभाष्य-कन्दल्यादिषु अस्य विस्तरो द्रष्टव्यः । 'प्रमाणमविसंवादि ज्ञानं' इति कथनात, शब्दस्य प्रामाण्यं यत् अविसंवादरूपं, तत् आप्तत्वमूलमेव वक्तव्यम् । तत्परित्यज्य शब्दो न प्रमाणमेव इति कथं युज्येत ? एवञ्च अनुमानवत् शब्दोऽपि स्वप्रामाण्ये परमुखमेव निरीक्षत इति इदमनुमानमेवेत्यर्थः । यद्यपीयं प्रक्रिया औद्धानाम् , 'आप्तवादाविसंवादात ' इत्यायधं च दृश्यते प्रमाणवार्तिके (1-225-228); अथापि विषयतौल्यं वैशेषिकबौद्धयोरस्मिन् । अथवा विपश्चित इति धर्मकीर्त्यादय एव उच्यन्ते ॥
26*