________________
402
शब्दस्यातिरिक्तप्रमाणत्वपरीक्षा
| न्यायमजरी
यथा प्रत्यक्षतो धूमं दृष्ट्वाऽग्निरनुमीयते । तथैव शब्दमाकर्ण्य तदर्थोऽप्यवगम्यते ॥ ८ ॥ अन्वयव्यतिरेकौ च भवतोऽत्रापि लिङ्गवत् । यो यत्र दृश्यते शब्दः स तस्यार्थस्य वाचकः । ९ ॥ पक्षधर्मत्वमप्यस्ति शब्द एव यतोऽर्थवान् । प्रकल्पयिष्यते पक्षो धूमो दहनवानिव ॥ १० ॥ 'तत्र धूमत्वसामान्यं यथा वहति हेतुताम् । गोत्वादिशब्दसामान्यं तद्वदत्रापि वक्ष्यति ॥ २६ एवं विषयसामग्रीसाभ्यादेकत्वनिश्चये । न विलक्षणतामात्रं किञ्चिदन्यत्वकारणम् ॥ ६२ ॥ पूर्ववर्णक्रमोद्भूतसंस्कार सहकारिता । पुरुषापेक्षवृत्तित्वं विवक्षानुसृतिक्रमः ॥ १३ ॥ इत्यादिना विशेषेण न प्रमाणान्तरं भवेत् । कार्यकारणधर्मादिविशेषोऽत्रापि नास्ति किम् ? ॥ १४ ॥ यथेष्टविनियोज्यत्वमपि नान्यत्वकारणम् । हस्तसंज्ञादिलिङ्गेऽपि तथाभावस्य दर्शनात् ॥ १५ ॥
·
अन्वयव्यतिरेकादिभेदात् व्याप्तेरपि यथा भेदः, तथाऽयमध्येकः सम्बन्धविशेषोऽस्तु । प्रत्यायन क्रमस्तु तुल्य एव । अयमेवार्थ: अनन्तरश्लोकैः उपपाद्यते । गोत्वादीति । गकारोत्तरत्वादिरूपं सामान्यं निखिलगोशब्देषुअस्त्येव ॥
विलक्षणता - अनुमिनोमि, शाब्दयामि इत्याद्यनुभवरूपं वैलक्षण्यम् । तथा सति हि हस्तचेष्टादीनां अर्थसूचकानामपि प्रमाणान्तरत्वप्रसङ्गः । शब्द। प्रमाणवैलक्षण्यमेवाह -- पूर्वेत्यादि । एवं सालक्षण्यमप्याह -- कार्येत्यादि । यथेष्टेत्यादि । धूमात् वह्नयनुमानादिकं न पुरुषतन्त्र, शब्दस्तु पुरुषतन्त्रः । 'स्वायते शब्दप्रयोगे इत्यादिर्हि न्यायः । तथाभावस्य स्वायत्तस्त्रस्य ननु अनुमाने महानसादिदृष्टान्तापेक्षा नियता, न तथा शाब्दबोधे इति शङ्कायां असकृदभ्यस्तविषये अनुमानेऽपि न दृष्टान्तापेक्षा नियता । अनभ्यस्तु सा
- तत्र घूमत्वसामान्य - ख.
2 वक्ष्यते - ख.