________________
आह्निकम् ३] शम्दस्यानुमानरूपत्वाशा
401 अथवा वेदप्रामाण्यसिद्धयर्थत्वाच्छास्त्रस्य तत्प्रणेतुराप्तस्येश्वरस्य यथाश्रुतमेवेदं लक्षणम् , स साक्षात्कृतधर्मेव, धर्मस्येश्वरप्रत्यक्षगोचरत्वात् ॥
[कृपयैव भगवता वेदानामुपदेशः] चिख्यापयिषाप्रयुक्त इति । कारुणिक एव भगवानिति वक्ष्यते। उपदेष्टा च, वेदाद्यागमानां तत्प्रणीतत्वस्य (४ आढिके) समर्थयिष्यमाणत्वात् ॥
[शब्दस्यानुमानेऽन्तर्भावाशङ्का] · आह--आस्तां तावदेतत् ! इदं तु चिन्त्यताम् ! किमर्थमिदं पुनश्शब्दस्य पृथग्लक्षण'मुपदिश्यते' ?
शब्दस्य खलु पश्यामो नानुमानाद्विभिन्नताम् । अतस्तल्लक्षणाक्षेपात् न वाच्यं लक्षणान्तरम् ॥५॥ परोक्षविषयत्वं हि तुल्यं तावद्दयोरपि । सामान्यविषयत्वं च सम्बन्धापेक्षणाद्दयोः ॥६॥ अगृहीतेऽपि सम्बन्धे नैकस्यापि प्रवर्तनम् ।
सम्बन्धश्च विशेषाणामानन्त्यादति दुर्गमः ॥ ७ ॥ अथवेत्यादि । ग्रन्थारम्भ एव न्यायशास्त्रस्य परमं प्रयोजनं वेदप्रामाण्यसंरक्षणमेवेत्युक्तत्वात् , इममर्थमविस्मरन् भाष्यकार: प्रकृतानुगुणतयाऽऽप्तं लिलक्षयिषुः 'धर्म' पदं प्रयुक्तवानितीयं चर्चा वृथैवेति भावः ॥
प्रमाणसमुच्चय वार्तिकादौ दिङ्नागधर्मकीाद्युक्तं संकलय्यानुवदतिआहेति। तल्लक्षणाक्षेपात्-अनुमानलक्षणेनैव आक्षेपात्-स्वतः प्राप्ते। परोक्षेति। एकपम्बन्धिज्ञानविधयैव हि अनुमानस्य प्रवृत्ति:। शाब्देऽपि अयं क्रम एव सिद्धान्ते। वाच्यवाचकभावाख्यवृत्तः सम्बन्धरूपता सम्मतैव । सामान्येति । व्याप्ति: शक्तिग्रहश्चेत्युभयं सामान्यद्वारैवेति हि सिद्धान्त:। ननु अविनाभावरूपसम्बन्धः व्याप्ति:, वाच्यवाचकभावलक्षणश्च सम्बन्ध: शक्तिः। एवं विलक्षणसम्बन्धमूलयोः कथमक्यमिति शंकायामाहसम्बन्धश्चेति। सम्बन्धश्च सर्वत्र नैकरूपो भवतुमर्हति। अन्ततः
'मुपवर्ण्यते-ख. NYAYAMANJARI
26