________________
400 शब्दपरीक्षा
[न्यायमञ्जरी धर्म इत्युपदेष्टव्यः कश्चिदर्थो विवक्षितः।
साक्षात्करणमेतस्य यथार्थमुपलम्भनम् ॥१॥ न तु प्रत्यक्षेणैव ग्रहणमिति नियमः, अनुमानादि निश्चितार्थोप. देशिनोऽप्याप्तत्वानपायात् ॥
चिख्यापयिषया युक्त इत्युक्ता वीतरागता ।
उपदेष्टेत्यनेनोक्तं प्रतिपादनकौशलम् ॥२॥ . वीतरागोऽपि मूकादिरुपदेष्टुमशक्तः किं कुर्यात् ? वक्तुं शक्तोऽपि साक्षात्कृतधर्माऽप्यवीतरागो न वक्ति, तूष्णीमास्त इति ॥
तस्य च प्रतिपाद्येऽर्थे धीतरागत्वमिष्यते। सर्वथा वीतरागस्तु पुरुषः कुत्र लभ्यते ॥३॥ . .. ऋष्यार्यल्मेच्छसामान्यं वक्तव्यं चाप्तलक्षणम्। एवं हि लोकेऽप्याप्तोक्तथा व्यवहारो न नत्यति ॥ ४॥
[ दोषक्षय: आप्तत्वं' इति पक्षविमर्श:] येऽप्याप्तिं दोषक्षयमाचक्षते-- तैरपि दोषक्षयः प्रतिपाद्याथेष्वेव वर्णनीयः ; अन्यथा लीके दृश्यमानस्याप्तोक्तिनिबन्धनस्य व्यवहारस्य निहवः स्यात्॥
आप्तत्वं न स्यात् इति शंकायामाह--- धर्म इति । धर्मपदं उपदेष्टव्यपदार्थसामान्योपलक्षकम् । एवं साक्षात्कारपदं सुदृढप्रमाणसामान्योपलक्षकमिति भावः । वाचस्पतिस्तु ‘धर्मा:-पदार्थाः' इत्येव व्याख्यातवान्। वीतरागतेति इच्छायामुपाध्यन्तरानुक्तेः । अवीतरागः-चिख्यापयिषाशून्यः ॥
इतीति । एतदुभयमपि आप्तत्वप्रयोजकम् । प्रतिपाद्येऽर्थ इति । प्रतिपाद्यमानेनार्थेन स्वानिष्टादिकं ज्ञात्वा, यद्यन्यथा वदेत् , स कथं आप्तः । अतः प्रतिपाद्यविषये निर्मत्सरत्वं विवक्षितम् । न तु रागसामान्यामाव:, तादृशस्य शब्दप्रयोगस्याप्यसंभवात् । अन्ततः लोकानुग्रहेच्छ: वा अस्त्येवेति भावः । वस्तुतस्तु–इच्छा अन्या, अन्यश्च रागः। तत्र राग एव कालुण्यापादक इति पूर्णवीतरागाणामपि इच्छया उपदेपसंभव इत्यन्यत्र विस्तरः॥
प्रतिपाद्येष्वर्थेषु प्रतिपाद्यार्थविषयकपक्षपातादिरूपदोषक्षयः इति भावः ॥