________________
आह्निकम् ३] आप्तलक्षणविचार:
399 [उपदेशपदस्यार्थः] उच्यते-श्रोत्रग्राह्यवस्तुकरणिका तदर्थप्रतीतिरमिधानक्रिया, इत्थं लोके व्यवहारात् । उक्तः, अभिहितश्च स एवार्थों लोके व्यपदिश्यते, यस्तु तथाविधप्रतीतिविषयतां प्रतिपन्नः । श्रोत्रग्राह्यस्य वर्णराशेरेवार्थप्रतीतिकरणत्वात् ; न तु श्रोत्रप्रत्यय विषयः स्फोटत्मा शब्दः। श्रोत्रग्रहणे ह्यर्थे शब्दशब्दः प्रसिद्धः। वर्णा एव च श्रोत्रग्रहणाः। यतोऽर्थप्रतीतिः स शब्द इति तूच्यमाने धूमादिरपि शब्दः स्यात् । अगृहीतसम्बन्धश्च शब्दः शब्दत्वं जह्यात् , अर्थप्रतिपत्तेरकरणात् ॥
केयं अभिधानक्रिया नाम ननु ! प्रतीतेः संविदात्मकत्वात् नाभिधानक्रिया नाम काचिदपूर्वा संविदन्या विद्यते। तत्करणस्य चोपदेशतायामतिप्रसङ्ग इत्युक्तम् ---सत्यम- संविदात्मैव सर्वत्र प्रतीतिः। सा चक्षुरादिकरणिका प्रत्यक्षफलम् , 'लिङ्गकरणिकाऽनुमानफलम् । श्रोत्रग्राह्यकरणिका शब्दफलम्। न हि-दृश्यते, अनुमीयते, अभिधीयत इति पर्याय शब्दाः। तत्प्रतीतिविशेषजनने च शब्दस्योपदेशत्वमुच्यते। आकाशानुमानविवक्षादौ तु तस्य लिङ्गत्वमेवेत्यलं प्रसङ्गेन ॥
[आप्तस्वरूपम्] .. आप्तो भाष्यकृता व्याख्यातः- 'आप्तः खलु साक्षात्कृतधर्मा यथादृष्टस्यार्थस्य चिख्यापयिषाप्रयुक्त उपदेष्टा च' इति ॥
शब्दस्य उपदेशरूपत्वप्रसङ्गः। शब्दाश्रयत्वेन आकाशानुमाने, तत्र करणस्य शब्दस्य उपदेशरूपत्वप्रसङ्गः॥
श्रोत्रग्रहणे-श्रोत्रग्राह्य इति यावत् । शब्दशब्द:-शब्द इति शब्दः॥
लिङ्गत्वमेवेति। शब्दकरणकप्रतीतित्वेऽपि तस्य, न हि 'अभिधीयते' इति तत्र व्यवहारः ॥
ननु 'साक्षात्कृतधर्मा' इति पदेन धर्मोपदेष्टुरेव आप्तत्वं भाति। एवं सति लौकिकं वाक्यं सर्वमप्रमाणमापतति। एवं अनुमानादिना निर्णीतार्थवक्तरि
' विषयविशेषः-ख. श्रोत्रग्राह्यकरणिका-ख. शब्दः-ख.