________________
398
शब्दपरीक्षा
न्यायमअरी
[उपदेशपदस्यार्थानुपपत्तिः] भवत्वेवम ! उपदिश्यत इति कोऽर्थः ? अभिधानक्रिया क्रियते। केयमभिधानक्रिया नाम ? प्रतीतिरिति चेत् ; चक्षुरादेरपि तत्करणत्वादुपदेशत्वप्रसङ्गः॥
स्वावगतिपूर्विका प्रतीतिरिति चेत्, धूमादेरप्युपदेशताप्रसङ्गः। चक्षुरादेरपि तत्करणत्वात् उपदेशत्वप्रसङ्गः। स्वसादृश्येन प्रतीतिरिति चेत्, बिम्बस्यापि पादाद्यनु- ' मितावुपदेशत्वप्रसङ्गः, शब्दे च तदभावादनुपदेशत्वं स्यात् । शब्दावच्छिन्ना प्रतीति रिति चेत्, श्रोत्रस्य तजनकत्वादुपदेशत्वप्रसङ्गः, शब्दस्य च स्वावच्छेदेन प्रतीतिजनकत्वनिषेधादनुपदेश त्वंभवेत् । नापि शब्दकरणिका प्रतीतिः ; · अभिः धानक्रियाविवक्षायां, आकाशानुमाने वा तस्योपदेशत्वप्रसङ्गा'. दित्यभिधानक्रियास्वरूपानिश्चयात् न तस्याः करणमुपदेशः॥ . देष्टतया ईश्वरसाधनम्। ऐतिह्येऽपि यथार्थे सामान्यत भातमूलकत्वानुमानालक्षणोपपत्तिः। अयथार्थस्य तु न लक्ष्यतेवेति शेषः ॥
. तत्करणवात्-प्रतीतिकरणत्वात् । स्वावगतीति । शब्दः किल ज्ञात. सन्नेव प्रतीतिकरणं, इन्द्रियं तु अज्ञातमेव स्वरूपसत् । उपदेशपदं च एतादृशविलक्षणार्थकं, प्रयोगरूख्या इत्यर्थः । धूमादेरिति। ज्ञायमानमेव खलु लिङ्गं अनुमितिकरणम् । स्वसादृश्येनेति। अनुमितौ करणं धूमः, प्रमितिस्तु तद्विजातीयवह्निविषयिणी। शब्दे तु यद्विषयको बोधः, तद्विषयक एव शब्दोऽ. पीति अमिमानः। बिम्बस्येति। प्रतिबिम्बस्येत्यर्थः। पूर्णप्रतिबिम्बस्थले अनुमानस्याप्रसरात्। 'यत्र पादादिबिम्बेन गतानामनुमीयते' इति (शब्द-२८) कुमारिलवचनं च स्मरन् आह-पादादीति । प्रत्युतासंभव एवेत्याह-- शब्दे चेति । बोधस्तु घटस्वावच्छिन्नस्य । करणे तु शब्दे, शब्दज्ञाने वा न हि घटत्वं स्थातुमलम् । अतः भत्रापि न सादृश्यलेश इति भावः । शब्दावच्छिन्नति । अयं पक्षः प्रत्यक्षपरीक्षायां वर्णितः। प्रत्युत असंभव एवेत्याह-शब्दस्य चेति। इदमपि प्रत्यक्षलक्षणे अव्यपदेश्यपदप्रयोजन. विचारावसरे प्रतिपादितम् । अभिधानेत्यादि। अभिधानक्रियां प्रत्यपि.
1 स्वसादृश्येन-ख. वप्रसङ्गा-ख. .