________________
आह्निकम् ३] सूत्रोक्तशब्द लक्षणविचार:
397 [स्त्रयोजनायां पक्षान्तरम् अन्ये तु ब्रुवते-युक्तमुपदेशपदमेव शब्दलक्षणम् । युक्तं च तन्निश्चयार्थमाप्तग्रहणम्। पूर्वसूत्रोपात्तविशेषणपदानुवृत्तिस्तु नोपयुज्यते, सामान्यलक्षणानन्तरं विशेषलक्षणप्रक्रमात् । सामान्यलक्षणेन च स्मृत्यादिजनकसकलप्रमाणाभासव्युदासे कृते सजातीयप्रत्यक्षादिव्यदच्छेद एव केवलमिदानी वक्तव्यः। तत्र च पर्याय'तया पर्याप्तमुपदेशपदमेव बुद्धयादिपदवदिति किं विशेषणानुवृत्तिक्लेशेन ? इति ॥
[माप्तपदमपि लक्षणघटकमिति पक्ष:] ___ अपर आह-अनवलम्बितसामान्यलक्षणानुसरणदैन्यमनध्याहृतप्राक्तनविशेषणपदमाप्तोपदेशश्शब्दलक्षणम् । न चाकारकेण शब्दान्तरकारिणा वा स्मृतिजनकेन वा संशयाधायिना वा शब्देन किञ्चिदुपदिश्यत इति निर्वचनसव्यपेक्षात् उपदेशग्रहणादेव तन्निवृत्तिः सिद्धा। मिथ्योपदेशे तु रथ्यापुरुषादिवचसि विपरीतप्रतीतिकारिणि प्रसङ्गो न निवर्तत इति तत्प्रतिक्षेपार्थमाप्तग्रहणम् । ऐतिह्य यथार्थप्रतीतिहेतावातानुमानान प्रमाणान्तरत्व'मिति तस्माद्यथाश्रुतमेव सूत्र शब्दलक्षणार्थ युक्तम् ।। ऐतिह्यस्य अज्ञातप्रवक्तृकत्वेन आप्तोपदेशरूपत्वाभावात् अतिरिक्तप्रमाणताsपत्तिः। सूत्रे तु चत्वार्येव प्रमाणानि निर्दिष्टानि । तेन गम्यते आप्तपदं न लक्षपघटकभिमतं सूत्रकर्तुरिति भावः ॥ . . अन्ये त्वित्यादि। प्रमाणसामान्यलक्षणेनैव अकारकशब्दादावतिप्रसङ्गवारणात् न साध्यसाधनादिपदानामाकर्ष इत्याशयः। पर्यायपदनिर्देशेन कथं लक्षणप्राप्तिः? इति शङ्कायां, सत्रकारस्येयं शैलीत्यत्र निदर्शनमाह -बुध्यादीति । 'बुद्धिरुपलब्धिनिमित्यनान्तरम्' इतिवदिस्यर्थः। शिष्टं बुद्धिपरीक्षायामेव दाग्यम् ॥ ___ अनवलम्बित-इत्यादिनाऽनुपदोक्तपक्षवैलक्षण्यं, अनध्याहृत-इत्यादिना प्रथममुपपादितपक्षवैलक्षण्यम् । न च उपदिश्यते इत्यन्वयः । प्रसंगः- अतिप्रसङ्गः। आप्तानुमानादिति। अत एव खलु वेदोप
ता-ख. ऐतिह्य-क. ३र-क.