SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ 396 शब्दपरीक्षा तृतीयमाह्निकम् - - शब्द परीक्षा [शब्दलक्षणम् ] उपमानानन्तरं शब्दस्य विभागसूत्रे निर्देशात्तस्य लक्षणं प्रतिपादयितुमाह - [ न्यायमञ्जरी आप्तोपदेशः शब्दः | १–१–७॥ उपदेशः शब्दः इत्युच्यमाने पर्यायमात्रोच्चारणात् अकारके शब्दमात्रे प्रमाण्यप्रसक्तिरिति । तद्विनिवृत्तये पूर्वसूत्रात् साध्यसाधनपदमाकृष्यते । तथाऽपि शब्दान्तर जनके प्रसक्तिरिति प्रत्यक्षसूत्रात् ज्ञानपदस्य, स्मृतिजनकस्य व्यवच्छेदार्थे चार्थग्रहणस्य, संशय विपर्ययजनकनिराकरणाय च व्यवसायात्मकाव्यभिचारिपदयो-. रनुवृत्तिरित्येवमव्यभिचारादिविशेषणार्थप्रतीतिजनक उपदेशः शब्द ८ 1 इत्युक्तं भवति ॥ तदेवं पर्याय मेवोपदेशशब्दं शब्दलक्षणमपेक्षितपूर्वसूत्रोपान्तविशेषणपदं केचिद्याचक्षते । आप्तग्रहणं च लक्षणनिश्चयार्थमाहुः । 'प्राणरसनत्वक्चक्षुः श्रोत्राणीन्द्रियाणि भूतेभ्यः' इत्यत्र भूतग्रहणं वक्ष्यते । एवं तिह्यस्य न प्रमाणान्तरता भविष्यति, उपदेशरूपत्वाविशेषादिति ॥ क्षुण्णं किञ्चिज्जयन्तस्य वर्त्म चेतावतैव नः । सुदूरमस्ति गन्तव्यं गच्छामः स्वरितं ततः ॥ अकारके - बोधाजनके घट, कलश, कुम्भ, इत्यादिरूपे । शब्दान्तरजनके – वीचीतरङ्गन्यायेन शब्दान्तरजनके पूर्वशब्दे । ज्ञानपदस्येति । एवं प्रत्यक्षसूत्र इव 'यत: ' शब्दोऽप्यध्याहर्तव्यः । एतादृशं ज्ञानं यत:, स शब्द इत्यर्थः ॥ एवं पर्याय - उक्तार्थकम् । लक्षणनिश्वयार्थ - उक्तार्थस्य परिचाययावत् । वक्ष्यते इति । अष्टमाहिके तत्सूत्रविवरणवेलायां कमिति " 'भूत' ग्रहणं स्पष्टार्थमिति सहेतुकमुक्तम् । एवं एवं सत्येव । अन्यथा 1 प्रत्यक्ष सूत्रात्- ख.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy