SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ 394 उपमानपरीक्षा [ न्यायमअरी न तु गवयेन गोः - सौर्येणाग्नेयस्य । तदिह यस्य 'विध्यन्तार्थता न तत्रोपमानात्सादृश्यावगमः ; यत्र वा तदवगमः, न तत्रेतिकर्तव्यताऽर्थित्वम् ॥ [ अन्तत: मीमांसकोक्तमुपमानं स्मृतिरेव ] ननु ! सौर्ये विध्यन्तार्थिनि प्रतीयमाने द्रव्यदेवतासारूप्यादेराग्नयः स्मरणपथमवतरतीति तत एवासौ विध्यन्तमधिगच्छतीति- एवमपि स्मरणमात्रात् सिद्धेऽर्थे किमुपमानेन ? आग्नेयस्मरणादेव' तदितिकर्तव्यता सौर्ये उपादास्यते । स्मृतिविशेष एंव विषयाधिक्यादुपमानमुच्यते इति चेत्, प्रतिविहितमेतदित्यलं प्रसङ्गेन ॥ [ मीमांसकसम्मतोपमानस्य वैयर्थ्यम् ] किञ्चोपमानप्रतिपादितार्थः न चोदनालक्षणतां बिभर्ति । . तस्मान्न युज्येत ततोऽधिगन्तुं आग्नेयविध्यन्तविशेषलाभः ॥ ३१ ॥ प्रतिनिधिरपि चैवं नास्ति नीवारजातेः न हि भवदुपमानात् ब्रीहिसादृश्यबुद्धिः / ज्ञातेत्यर्थः । न तु' इत्यनन्तरं 'भवन्मते ' इति शेषः । प्रकृते का हानिः ? इत्यत्राह - तदित्यादि । अङ्गापेक्षा हि सौर्येष्टे :ग्रहणं तु आग्नेये, अप्रसिद्ध सादृश्यं खलु प्रसिद्धे गृह्यत इति भवन्मतम् ॥ ननु तावता :- सादृश्य ननु सौर्यसादृश्यस्याग्नेये प्रतीतौ तुल्यवित्तिवेद्यतया आग्नेयसादृश्यं सौर्ये उपस्थाप्यत एवेति भङ्गलाभः संभवतीति शङ्कते नन्विति । विषयाधिक्यादिति । उपपादितमिदं पूर्व (384-385 पुढे ) प्रतिविहितमिति । पूर्वं (पुट. 385) इति शेषः ॥ प्रथमदृष्टान्ते .बाधकमप्याह – किञ्चति । उपमानप्रमाणादेव विध्यन्तलाभे तस्य कथं चोदनै कगम्यत्वमित्यर्थः ! ततः -- उपमानात् ॥ द्वितीयदृष्टान्तस्याप्यसांगत्यमाह - प्रतिनिधिरिति । प्रतिनिधित्व मि-. न हीति । अप्रसिद्धसादृश्यं खलु प्रसिद्धे ग्राह्यं भवताम् । त्यर्थः ।
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy