________________
आह्निकम् २] मीमांसको कोपमानफलस्यासामन्जस्यम्
393 दानमुपमानात्प्रतीयत इति। तदाह (श्लो. वा. उप. ५२, ५३)----
'भिन्नानुमानादुपमेयमुक्ता - सौर्यादिवाक्यैन सहायि दृष्टम् । सादृश्यतोऽग्न्यादियुतं कथं नु
प्रत्याययेदित्युपयुज्यते नः । प्रतिनिधिरपि चैवं व्रीहिसादृश्ययोगात्
भवति तदपचारे यत्र नीवारजाती। तदपि फलमभीष्टं लक्षणस्योपमाया: 'प्रकृतिरपि च गौणैर्बाध्यते यत्र चान्यैः ॥'
मीमांसकोक्तोपमानप्रयोजनपराकरणम् ] तदेतदसमञ्जसम-- प्रसिद्धनाप्रसिद्धस्य सादृश्यमवगम्यते' इत्येषभवद्भिरुत्सृष्टः पन्थाः। विपर्ययस्त्वाश्रितः॥ __ यदप्यदृष्टेन नूतनेनाप्रसिद्धन गवयेन वाक्यसिद्धस्य गोः सादृश्यमुपमानात् प्रतीयत इति--तदिहापि निशातेतिकर्तव्यताकेन गोवत्प्रसिद्धनाग्नेयेन सौर्यस्य गवयवदप्रसिद्धस्य सादृश्यमवगम्यते; मादृश्यमेव नियामकं तत्र, यतस्सामान्यविषयिणी हि चिकीर्षा । सर्वेषां शब्दानामाकृतिपरत्वात् । आकृतेरमूर्तत्वेन क्रियान्वयानहत्वेन तदाश्रयस्य वीह्यादिद्रव्यस्य ग्रहणम् । तत्र पूर्णावयवसामान्ययोगः ब्रीही, ततः किञ्चिन्नयूनतद्योगः नीवारे। इतरत्र च ततोऽपि न्यूनसामान्ययोगः । एवश्व नीवाराणां सदृशतमत्वात् तेषामेव ग्रहणम् । अधिकमन्यत्र ॥ .. उतार्थद्वयं श्लोकवार्तिकेन संवादयति-तदाहेति।
उत्सृष्टः-परित्यक्तः। अथवा उत्सर्गेण प्रापित:- उपदिष्टः । अप्रसिद्धगवयसादृश्यं गवि गृह्यते इति खलूपमानफलं भवद्भिरुक्तम् । इदानीं च प्रसिद्धाग्नेयसादृश्यं सौर्ये वर्ण्यत इति विपर्ययः ॥
विपर्ययमेवोपपादयति-यदिति। उक्तमिति शेषः। यत् इति यथेत्यर्थकं वा। एवं उत्तरत्र 'तत् इत्यत्रापि। गवयेन अस्य सादृश्येनान्वयः। एवमुत्तरत्र 'आग्नेयेन' इत्यत्रापि । निर्मातेति । सम्यक्
ख पुस्तके नास्ति ।
त-क.