________________
392 उपमानपरीक्षा
न्यायमञ्जरी मीमांसकोक्तप्रयोजनवर्णनम्] ननु ! उक्त एवोपयोगः सौर्ये चरौ द्रव्यदेवतासारूप्यादाग्नेयविध्यन्तलाभः । 'आग्नेयोऽष्टाकपालः' इत्युप'दिष्टदृष्टादृष्टेति'कर्तव्यताकलापतया निराकाङ्क्षो विधिः। 'सौर्य चळं निर्वपेत् ब्रह्मवर्चसकामः' इत्यत्र प्रधानमात्रोपदेशाद्विध्यादिरस्ति, न तु विध्यन्तः - इतिकर्तव्यताऽभिधानम्। न चानितिकर्तव्यताकं कर्म प्रयोगयोग्यम्। अत: किमियमितिकर्तव्यताजातमिह गृह्यतामित्यपेक्षायां चरुपुरोडाशयो/ह्याद्यौषध साध्य त्वेन द्रव्यसादृश्यात्सूर्याग्न्योश्च तेजस्वितया देवतयोः सारूप्यादाग्नेयेतिकर्तव्यता सौर्य क्रियत इत्युपमानाद्गम्यते ॥ __अपि च क्वचिच्चोदितद्रव्यादावलभ्यमाने प्रतिनिध्युपादानेन. कर्मसमापनात् प्रतिनिधिमात्रोपादाने प्राप्त व्रीहिसदृशनीवारोपावेदोपयोग्येव निरूप्यत इति प्रतिज्ञातम् । तथा चोपमानस्य कः वेदोपयोगः? इति वक्तव्यम् ॥ ___ विध्यन्तः- अङ्गम् । कर्मस्वरूप मेधक: उत्पत्तिविधिः विध्यादिः । सच अङ्गविधौ निराकाङ्क्षः । अतः अङ्गविधिः विध्यन्तः । जैमिनिसूत्रे 'विध्यन्तो वा प्रकृतिवत्' इत्यादावयं शब्दः प्रयुक्तः। अधिकं भाष्ये द्रष्टव्यम् । इति विधिः इत्यन्वयः। सारूप्यादिति। 'यस्य . लिङ्गमर्थसंयोगात्' 'ऐकाऱ्यांद्वा नियम्येत' (जै. सू. 8-1-28) इति सूत्रभाष्ययोः अयं न्यायः प्रदर्शितः। पार्थसारथिमित्रैः शास्त्रदीपिकायां 'सादृश्यविशेषात्त्वेकदेवत्ये सौर्यादौ एकदेवत्यस्याग्नयस्य प्रवृत्तिः' इत्युक्तम् । खण्डदेवेनापि भादीपिकायां सौर्यादिषु औषधद्रव्यकत्वविशिष्टैकदेवताकत्वरूपविशेषसादृश्यादामेयविकारत्वम् ' इत्युपपादितम् ॥
__ प्रयोजनान्तरमप्याह-अपि चेति । क्वचित्-दर्शपूर्णमासादौ। चोदितद्रव्यं-बीह्यादि । प्रतिनिधिः नीवारादिः । प्रतिनिधिमात्रं-प्रतिनिधिसामान्यम् । अयं च न्यायः-'सामान्य तच्चिकीर्षा हि' (जै.सू. 6-3-7) इत्यत्र दर्शितः। अयमर्थः - विहितस्य व्रीह्यादेरलाभे तत्प्रतिनिधित्वेन स्वैरं यत्किञ्चित् गृहीतुं शक्यं, नियामकाभावात् इति चेत्-न-सामान्य
1दिष्टादृष्टेति-ख. साधन-स्व.