________________
आह्निकम् २]
मीमांसकोक्तं उपमानफलम्
अन्यश्च सादृश्यमित्युक्तत्वात् न प्रतिज्ञार्थकदेशो हेतुः । अभ्युत्पन्नस्य' नारिकेलद्वीपवासिनः, बालस्य वा तत्प्रत्ययानुत्पादात् न व्याप्तिनैरपेक्ष्येण सा प्रतीतिरिति वक्तव्यम् । तस्मादित्यमनुमानजन्यत्वात् स्मृतित्वाद्वा पूर्वोक्तादसंभवादेव वा नेयमवगतिरुपमानकार्येति सिद्धम् ॥
[मीमांसकस्योपमानप्रयोजनस्यानुवादः ]
कश्चास्य भवदुपमानस्य स्वतन्त्रोपयोगः ? एवं ह्याहुर्भवन्तः-(लो. वा. शब्द. ७)
'अपरीक्षामिषेणापि लक्षणानि वदन्नयम् ।
"
न स्वतन्त्रोपयोगित्वनिरपेक्षा णि जल्पति ॥
د
391
प्रतीतेर्व्याप्तिजन्यत्वे प्रमाणमाह अभ्युत्पन्नस्येति । वृद्धोऽप्यन्युत्पन्न:
कश्चित् व्युत्पन्नोऽपि गवयगन्धरहितदेशान्तरवासी कश्चित् एतदेशवापि बाल: कश्चित् । एषां तादृशप्रतीत्यनुयात् न शब्दं न प्रत्यक्ष, किन्त्वनुमानमेवेदमित्यर्थः ॥
स्वतन्त्रः--वेदः ।
क एवमाह ? वेदोपयोग्येवात्र निरूप्यत इति । अत्राह - अपरीक्षेति । अत्र स्वतन्त्र पदार्थः वेद इति पार्थसारथिमिश्रैः सुचरितमिश्रैश्चामिहितम् । अत्रेदमितिवृत्तम्- 'चोदनालक्षणोऽर्थो धर्मः ' इत्यनेन धर्मस्य श्रुत्येकसमधिगम्यत्वे कथिते, प्रत्यक्षादीनां कुतस्तत्र प्रमाणत्वासंभव इति शङ्कायां प्रत्यक्षादीनामेवंलक्षणकत्वान्न तानि धर्मे प्रमाणीभवितुमर्हन्तीति स्थापनाय प्रत्यक्षादीनां लक्षणानि कथनीयान्यापतितानि । तत्र प्रत्यक्षस्यानुमानस्य च लक्षणं कथितम् । शब्दस्य लक्षणं वक्तव्ये भाष्यकारस्तु शब्दसामान्यस्य लक्षणमनुक्का शब्दविशेषस्य शास्त्रस्यैव लक्षणं वदति -- शास्त्रं च शब्दविज्ञानासनिकृष्टेऽर्थे विज्ञानम् इति । तदिदमसङ्गतम्, शब्द सामान्यलक्षणस्यैव वन्यत्वात् । नच वाच्यं - भाष्यकारः ऐदम्पर्येण न प्रमाणविचारे प्रवृतवान्। श्रुतेरेव प्रकृतवचारणीयत्व स्थापनाय प्रत्यक्षादीनामपरीक्षणीयत्वं कथनीयं संवृत्तमिति प्रमाणनिरूपणदम्पर्याभावात् नार्य महान् दोष इति इति शङ्कायामाह -- अपरीत्यादि । यद्यप्यपरीक्षणीयत्वार्थमेव प्रत्यक्षादीनि लक्षितानि । अथापि नभाकारः स्वैरं वदति। किन्तु वेदविचारस्य प्रकृतत्वात् तदुपयोभ्येव विषय निरूपणीय:, नानुपयोगीति शास्त्रलक्षणमुक्तवान इति । एान
'