________________
390 उपमानपरीक्षा
न्यायमजरी ननु ! वनस्थप्रमातुर्गवयविषयं प्रत्यक्षं कथं ग्रामवर्तिनि गवि सारश्यबुद्धेः स्पष्टतामादधीत ? किं कुर्मः ? तदर्शनानन्तरं सुस्पष्टतत्सादृश्यविशिष्टगोपिण्डस्मरणात् ॥
मीमांसकोक्तोपमानस्य प्रमाणान्तरत्वासंभवः] ननु ! अत एवेदमुपमानं प्रमाणान्तरमुच्यते, प्रत्यक्षस्य सन्निहितगवयस्वरूपमात्रनिष्ठत्वात् । परोक्षे च 'गवि गवय'सादृश्यप्रत्ययस्य विस्पष्टस्यान्यतोऽसिद्धेरिति । उक्तमत्र-स्मृतिरेवेयम् , तथाऽवभासनात्। अनधिगतार्थग्राहि च प्रमाणमुपगच्छन्ति भवन्तः॥
मीमांसकोक्तमुपमानमन्ततोऽनुमानमेव] . भवतु वा स्मृतिविलक्षणेयं प्रतीतिः। तथाऽप्यनुमानजन्यत्वात् न प्रमाणान्तरमाविशति। स्मर्यमाणो गौः धर्मी, एतत्सदृश इति साध्यो धर्मः, एतदवयवसामान्ययोगित्वात् , सन्निहितद्वितीयगवयपिण्डवत् । तदसन्निधाने सामान्येन व्याप्तिदर्शयितव्या --- यत्र यदवयवसामान्ययोगित्वं तत्र तत्सादृश्यम् , यथा यमयोरिति । विशिष्टस्य तद्योगस्य हेतुत्वान्नानैकान्तिकत्वम् । सामान्ययोगोऽन्यः, प्रमाणमुपमान, अधिकार्थत्वे प्रत्यक्षमित्यर्थः। अयं दोषः भवताऽपि स्मर्तव्य इत्यर्थः ॥
सादृश्यबुद्धः-पूर्व गवि स्वरूपतोऽवंगताया इति शेषः। कथं आदधीत इत्यन्वयः । तथा च इदानी गोरप्रत्यक्षत्वेऽपि तत्स्मरणादेव पूर्व गृहीतं सादृश्यं स्पष्टीकृतं भवतीति ॥
मत एवेत्यस्यैव विवरणम् --प्रत्यक्षस्येत्यादि ।
इयं प्रतीतिः- अनेन सदृशो गौरिति प्रतीतिः। सन्निहितेति । संप्रतिपन्नेति यावत् । तत् इति द्वितीयपिण्डपरम् । यमयोः--यमलयोर्धात्रोः। ननु गवयगतपादशृङ्गाद्यवयवसामान्ययोगो महिषादावप्यस्तीति व्यमिचरितोऽयं हेतुरिति शङ्कायां, अस्य दोषस्य सर्वमतसाधारण्येन विलक्षणस्यावयवसामान्ययोगस्यैव विवक्षणीयतया न व्यभिचार इत्याह-विशिष्टस्येति । नन्वेवमपि हेतुसाध्ययोरैक्यादसिद्धिस्सिद्धसाधनं वेत्यत्राह-सामान्येति । तादृश
1 गवय -ख.
भवतु-ख.