________________
आह्निकम् २] मीमांसकसम्मतोपमानं नेष्टमापकम्
389 - अथ तदा तदग्रहणेऽपि सति न तस्य सदृशप्रत्ययः--न तर्हि भूयोऽवयवसामान्ययोगः सादृश्यम् ; किन्तु सहशप्रत्ययहेतुः सादृश्यम्' । यथोक्तम् -'सादृश्यं सहशप्रत्यय हेतुत्वमेव '। भूयोऽवयवसामान्ययोगे च तल्लक्षणे चित्रादावव्याप्तिः। अतिव्याप्तिश्च, प्राण्यन्तरेषु विसदृशेष्यपि तदवयवसामान्यानां खुरादीनां भावात् । भूयस्त्वं तु कियत्तेषामिति न विनः। यावता सादृश्यप्रत्ययोत्पत्तिरिति चेत् , तर्हि सहशप्रत्ययहेतुत्वमेव साहश्यमस्त्विति युक्तम् । तस्मात् गवयदर्शनात्पूर्वमपि गव्यनमिव्यक्तसाहश्यग्रहणोपपत्तः स्मृतिरेवेयम् ॥
मीमांसकसम्मतोपमानस्य फलाभाव:] अथ मतं यथा नैयायिकानां अतिदेशवाक्यवेलायां सोपप्लवा संशासंझिसम्बन्धबुद्धिः उप'मानानि रुपालवीभवति, एवमियमपि-- योऽसौ पूर्व · व्यक्तितिरस्कृता गवि गवय सादृश्यबुद्धिरभूत , सेदानी उपमानाद्यक्तीभविष्यतीति ॥
नेतदस्ति--गवयग्राहिणा प्रत्यक्षेणैव तत्स्पष्टतासिद्धः। यथा भगिनैयायिका उक्ताः (श्लो. वा. उप. ९)--
'अथ त्वधिकता काचित् प्रत्यक्षादेव सा भवेत् इति
तथा नैयायिका अपि युष्मान वक्ष्यन्ति ॥ : सादृश्यस्याम्यादृशस्वेऽपि नास्माकं हानिरित्याह-अथेति । अव्याप्तिरिति। गोगवययोर्निरुच्यमानसादृश्यापेक्षया अभ्याप्यतिम्यासी शेये । तस्मात्-एवं प्रतियोगिस्मरणमन्तरापि सादृश्यप्रतीते: संभवात् ॥ .
ननु स्वरूपत. सादृश्यं यद्यपि गृह्यताम् । प्रतियोगिस्मरणघेलायामेव सादृश्यामिभ्यक्तिर्भवतीति भवतेवोक्तम् । तर्हि तदेवोपमानप्रयोजनमस्थिति शकते-अथेति । सोपालवा-ग्यक्तिविशेषापरिज्ञानात्। स्पष्टतासिद्ध:-.. न्यक्तिविशेषस्य दृष्टस्वादित्यर्थः। तथेत्यादि । 'पूर्ववाक्यार्थविज्ञानानाधिस्वं गवये यदि। स्मरणादविशिष्टत्वात् सङ्गतेन प्रमाणता' इति पूर्वतनवासिकम् । संगति:-संवादः -- अनुवादः। अतिदेशवाक्यादनधिकार्यस्वे अनुवादरूपस्वाद
सादृश्यम् -ख.
हेतुत्वमेव सादृश्यम् -ख.
मानं नि-ख.