________________
388
उपमानपरीक्षा
न्यायमचरी
नैतदपि चित्रतरम्। तथा हि-वने गययमालोक्य नागरिको न करेणुमनुस्मरति, न करभम , न तुरङ्गम् ; अपि तु विशिष्टमेष पिण्डम् । न च निर्निबन्धनमेवेदं विशिष्टविषयस्मरणमुत्पत्तुमर्हति । तस्मात् यत्रैव परिदृश्यमानपिण्डसादृश्यं पूर्वमवगतं स एवं 'पिण्डो'ऽस्मिन् दृश्यमाने स्मरणपथमवतरति, नेतर इति। सादृश्यग्रहणमसंवेद्यमानमप्यभ्यस्तविषयाविनाभावस्मृतिवत् बलात्परिकल्प्यते। पूर्व च गवयग्रहणाद्विना गवयसदृशीयं गौरिति प्रामीणस्यानुभवो न भवतीति व्यक्तितिरस्कृतं तत्सादृश्यग्रहणमुख्यत इति न किञ्चिचित्रम। तस्मात् स्मृतिरेवेयम् तथा हि प्रतीतिः 'अनेन सदृशो गौर्मया नगरे दृष्टः' इति । न तु 'अद्यैत. सहशो गौश्यते' इति बुद्धिः॥
प्रतियोग्यग्रहणेऽपि सादृश्यप्रहणसंभवः] ननु ! प्रतियोगिग्रहणाद्विना कथं ग्रांन्यस्य . साश्यग्रहणम् ? अत्र भवतेवात्मनः प्रतिकूलममिहितम् (श्लो. वा. उप. ३५) --
सामान्यवञ्च सादृश्यं एकैकत्र समाप्यते। .
प्रतियोगिन्यदृष्टेऽपि तस्मात्तदुपलभ्यते ॥ ३०॥ स व भूयोऽषयवसामान्ययोगोऽगृहीतगवयवेनापि नागरकेण प्रहीतुं शक्यते ॥
नागरिक:-- अष्टपूर्वगवय इति यावत् । एवं सर्वत्र । विशिष्टमिति। विक्षणावयवसनिवेशविशिष्टमित्यर्थः । यत्रैव-पिण्ड इति शेष: । मनु व्यक्तिग्रहणेऽपि सादृश्यप्रतीतिर्न दृश्यत इत्यत्राह-- सादृश्येति । भावस्त्वनुपदमेवोकः। प्रतीतिः- स्मृतिरिति यावत् ॥
किममिहितं प्रतिकूलमित्यत्राह-सामान्यवदिति । एवञ्च प्रतियोग्यज्ञानेऽपि साश्यग्रहणं भवतैवोपपादितमित्यर्थः। अतिरिक्ताभावानङ्गीकर्तमते अन्योम्याभावरूपा जातिः, प्रतियोगिग्रहणे सत्यन्योन्याभावरूपतया, तदभावे व स्वरूपतो गृह्यत इत्युच्यते। सोऽयं न्याय: अत्रापि स्मर्तव्यः ।।
1 पिण्डे-क.
पति-स.